________________
२६]
[ उत्तराध्ययनसूत्रे-भाग-२ श्रुत्वा जानतापि नेमिना पृष्टः सारथिः कोऽयं मरणभीरूणां प्राणिनामेष करुणारवः ? तेन कथितं स्वामिस्तव विवाहगौरवायानेकजनभोजनाय मेलिता अमी हरिणादयो जीवा व्यापादयिष्यन्ति, ते च साम्प्रतमाक्रन्दं कुर्वन्तीति । नेमिराह-सारथे ! रथमितो निवर्तय, नाहं विवाहं करिष्ये । यत्रैतावतां प्राणिनां वधस्तेन विवाहेन मे समाप्तम्, संसारपरिभ्रमणहेतुरेवायं विवाहः । नेमिवचनात्ते सर्वेऽपि प्राणिनो मुक्ता गताः स्वस्थानं सुखेन ।
विरक्तचित्तं पश्चाद्वलमान नेमिनमालोक्याऽकाण्डवज्रप्रहारताडितेव विह्वला राजीमती धरणीतले निपतिता मूर्छिता, सम्भ्रमेण सखीजनेन शीतलजलसिक्ता, तालवृन्तेन वीजिता लब्धचेतनैवं विललाप ।अहो ! मयात्यन्तदुर्लभे भुवननाथेऽनुरागं कुर्वन्त्याऽऽत्मा लघूकृतः । धिग् मम सुकुलोत्पत्ति, धिग् मम रूपयौवनम्, च धिम् मम कलाकुशलताम्, येनाहं नेमिना प्रतिपद्यापि मुक्ता । हे नाथ ! मे जीवितं निर्गच्छति, अङ्गानि मे त्रुटन्ति, हृदयं मे स्फुटति, विरहाग्निज्वालाकुलितोऽयं ममात्मा, आहारो मे क्षारसदृशः, जलचन्दनचन्द्रिकादयः पदार्थाश्चिताग्निसदृशाः स्वामिंस्तव विरहे मम जायन्ते, स्वामिन् ! मां त्वं किं त्यजसि? किं त्यजसि ? किं मम विरुद्धं त्वया श्रुतं दृष्टं वा ? जन्मान्तरकृतं ममाशुभकर्मैवोदितम्, स्वामिन्नेकवारं ममाभिमुखं दृष्टिं देहि, प्रेमपरायां मयि त्वं सर्वथा निरपेक्षो मा भूः । अथवा सिद्धिवधूत्कण्ठितस्य तव हृदयं सुरसुन्दर्योऽपि न हरन्ति, मनुष्यस्त्रीणां तद्धरणे का गणना? एवं महाशोकभरादिता विलपन्ती राजीमती सखीजनेन भणिता, अलङ्घनीयो भवितव्यतापरिणामः, ततो धीरत्वावलम्बनं कुरु ! अलमत्र विलपितेन, सत्त्वप्रधाना राजपुत्र्यो भवन्तीति भणित्वा संस्थापिता।
द्वितीयदिनेऽनया सखीनां पुर एवमुक्तम्, अद्य मयेदृशः स्वजो दृष्टः । यथा मदवारदेशे एको दिव्यपुरुषो देवदानवपरिवृतः सिंहासनमारूढः, तस्याभ्यर्णेऽनेकजन्तवः समायाताः, अहमपि तत्रैव गता।स चतुरः शारीरमानसदुःखप्रणाशकानि पादपफलानि तेभ्यो ददन्मया प्रार्थितो-'भगवन् ! ममाप्येतानि फलानि देहि, तेन तानि दत्तानि । तदनन्तरं प्रतिबुद्धाऽहम् । सखीभिर्भणितं, हे प्रियसखि ! 'मुखकटुकोऽपि स्वप्नोऽयं शीघ्रं परिणामसुन्दरो भविष्यति ।
इतश्च नेमिनाथः समुद्रविजयशिवादेव्यादिभिर्विविधैरुपायैः पाणिग्रहणार्थं प्रार्थ्यमानोऽपि नैव तमर्थमङ्गीचकार । अस्मिन्नवसरे लोकान्तिकास्तत्रागत्यैवमूचिरे । भगवन् ! सर्वजगज्जीवहितं त्वं तीर्थं प्रवर्तयेति भणित्वा जननीजनकादीनामन्तिके गत्वैवमूचुः । भवत्कुलोत्पन्नः श्रीनेमिः प्रव्रजिषुरस्तीति को भवतां विषादः ? नेमिरपि मातृपित्रोः पुरः कृताञ्जलिरेवमुवाच-'इच्छामि युष्पदनुज्ञातः प्रव्रजितुम्।' इदं च श्रुत्वा शोकसचट्टनिरुद्धहृदया धरणीतले निपतिता चूर्णितभुजवलया शिवादेवी, मिलितं तत्र दशारचक्रम्, जलाभिषेकादिना लब्धसंज्ञा सा भणितुमारब्धा-वत्स ! कथमस्माकं मनोरथं मूलादुच्छिन्दसि ? कथं वा त्वं सत्पुरुषोऽपि प्रार्थनाभङ्गं करोषि ? दशारचक्रस्यापि मनःसन्तापं किं करोषि ? १शरूआतमां असुंदर