________________
[२५
२२, रथनेमीयमध्ययनम्]
अन्यदा नेमियौवनं प्राप्तो विषयसुखनि:पिपासोऽपि समुद्रविजयादिना विवाहार्थं भृशमुक्तोऽपिन विवाहमङ्गीकुरुते । ततः समुद्रविजयादिभिः केशवस्यैवमुक्तम्-केशव ! तथा कुरु, यथा नेमिविवाहमङ्गीकुरुते । कृष्णेनापि रुक्मिणीप्रमुखाः स्वभार्याः प्रेरिताः, ताभिर्जलकेलिकरणपूर्वकमेवं श्रीनेमिनाथस्योक्तम् स्वामिन् ! लोकोत्तरं तव रूपम्, निरुपमाः सौभाग्यादयोऽनन्तास्त्वयि गुणाः, निरामयस्तव देहः, सुरसुन्दरीणामप्युन्मादजनकं तव तारुण्यम् । ततोऽनुरूपदारसङ्ग्रहेण सफलं कुरु दुर्लभं मनुष्यत्वम् । ततो हसित्वा नेमिनाथेन भणितं मुग्धानामशुचिस्वरूपाणां बहुदोषालयानां तुच्छसुखनिबन्धनानामस्थिरसङ्गमानां रमणीनां सङ्गमेन न भवति नरत्वं सफलम् । अपि चैकान्तशुद्धाया निष्कलङ्काया निरुपमसुखायाः शाश्वतसङ्गमायाः सिद्धिवध्वा एव सङ्गमेन नरत्वं सफलं भवति । यतः
"'माणुसत्ताइसामग्गी, तुच्छभोगाण कारणा रयणं च कोडिआइच्च, हारिति अबुहा जणा ॥ १॥"
अहं सिद्धिवधूनिमित्तमेव यतिष्ये ।
नेमेरयमभिप्रायस्ताभिः कृष्णाय निवेदितः । कृष्णेन च नेमिः स्वयं भणित:ऋषभादयस्तीर्थङ्करा दारसङ्ग्रहं कृत्वा सन्तानपरम्परां वर्धयित्वा स्वेष्टलोकमनोरथान् पूरयित्वा पश्चिमवयसि निष्क्रान्ताः शिवं प्राप्ताश्च । त्वमपि तत्तुल्यस्तत्रैव मोक्षे यास्यसीति, दशारचक्र-सन्तोषाय किं न पाणिग्रहणं करोषि ? इति कृष्णः प्रकामं विवाहाग्रहं कृतवान् । नेमिस्तु मौनमालम्ब्य स्थितः । कृष्णेन चिन्तितमनिषिद्धमनुमतमिति न्यायादङ्गीकृत एव नेमिना विवाह इति दशारचक्रायोक्तवान् । सञ्जातहर्षेण दशारचक्रेण भणितः कृष्णस्त्वमेव नेम्यनुरूपां कन्यां गवेषय।
ततः कृष्णेन गवेषयतोग्रसेनपुत्री राजीमती कन्या नेमितुल्यरूपाप्ता ।सा पुनर्धनवतीजीवोऽपराजितविमानाच्च्युत्वा तत्रोत्पन्नास्तीति।इयमेव नेम्यनुरूपेति तदर्थं कृष्णेनोग्रसेनः प्रार्थितः । तेनापि मनोरथातीतोऽयमनुग्रह इति भणित्वा कन्या दत्ता।ततः कारितं कुलद्वयेऽपि वर्धापनम्, गृहीतं विवाहलग्नम्, कारितः समस्तजातिवर्गस्य भोजनाच्छादनादिसत्कारः, प्राप्ते च लग्नदिवसे दिव्यरमणीभिः स्नापितोऽलङ्कृतो विभूषितो मत्तवारणमारूढः, समन्तान्मिलितदशारचक्रबलदेववासुदेवादियादवपरिकरितः, पृष्टौ वादितानेककोटिप्रमाणवादित्रः, शिरोधृतातपत्रचामरैर्वीज्यमानः, पृष्टौ गायमानमङ्गलः, सर्वतो मागधैः कृतजयजयारवः, सुरनरसङ्घन सर्वतो वीक्ष्यमाणः, सुरीभिर्नारीभिश्च प्रार्थ्यमानो नेमिकुमारः प्राप्तो महता विस्तरेणोग्रसेननृपद्वारपुरोरचितविवाहमण्डपासन्नदेशम्।
राजीमत्यपि सर्वालङ्कारविभूषिता गवाक्षस्था नेमिं दृष्ट्वाऽऽनन्दपरवशा जाता। एतदपि तदानीं न वेत्ति, काऽहं ? किमत्रास्ति ? कोऽयं कालः ? कीदृशी चेष्टेति । अत्रान्तरे करुणारवं १ मानुष्यत्वादिसामग्री, तुच्छभोगानां कारणात् । रत्नं च कर्पदिकाहेतोः, हारयन्ति अबुधा जनाः ॥१॥