________________
२४]
[उत्तराध्ययनसूत्रे-भाग-२ ____ धनजीवस्ततश्च्युत्वा सौर्यपुरे नगरे दशदशाराणां मध्ये ज्येष्ठस्य समुदविजयस्य राज्ञो भार्यायाः शिवादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितः कार्तिककृष्णद्वादश्यां पुत्रत्वेनोत्पन्नः । उचितसमये श्रावणशुद्धपञ्चम्यां प्रसूता शिवादेवी, जातो दारकः, दिक्कुमारिकाविहितजातकर्मानन्तरं सरासरैर्मेरुमस्तके जन्माभिषेके कते सति राजापि वर्धापनं कारितम । अस्मिश्च गर्भगते कदाचित् स्वप्ने शिवादेव्याऽरिष्टरत्नमयो नेमिदृष्टः, अतोऽरिष्टनेमिरित्यस्य नाम कृतम् । अयं कुमारोऽष्टवार्षिको जातः ।
अत्रान्तरे कृष्णेन कंसे निपातिते जीवयशावचनेन यादवानामुपरि क्रुद्धो जरासिन्धुराजा, तच्छड्कया सर्वेऽपि यादवाः पश्चिमसमुद्रं यावद्गताः । तत्र केशवाराधितवैश्रमणेन कृता सर्वकाञ्चनमयी द्वादशयोजनायामा नवयोजनविस्तारा द्वारिकानाम्नी नगरी । तत्र सुखेन यादवास्तिष्ठन्ति । क्रमेण निहते जरासिन्धो रामकेशवौ भरतार्धस्वामिनौ जातौ ।अरिष्टनेमिभगवान् यौवनमनुप्राप्तः । विषयसुखपराङ्मुखोऽपि मित्रैः प्रेर्यमाणोऽसौ नानाविधक्रीडां करोति । अन्यदा समानवयस्कैरनेकराजकुमारैः सह क्रीडन् स गतो नारायणस्यायुधशालायाम् । तत्र दृष्टान्यनेकानि देवाधिष्ठितान्यायुधानि । तत्र दिव्यं कालावतं धनुः कौतुकेन गृह्णन् नेमिरायुधपालेन भणितः, कुमार! किमनेनाशक्यानुष्ठानेन ? न हि नारायणमन्तरेणान्यः कोऽपि नर इदं धनुरारोपयितुं शक्तः । तदा ईषद्धसित्वा नेमिना तद्धनुर्लीलयैवारोपितम्, आस्फालिता जीवा, तस्याः शब्देन मेदिनी कम्पिता, विस्मिताः सर्वेऽप्यायुधशालिका नराः । ततस्तद्धनुर्मुक्त्वा नेमिना शङ्खो गृहीतः पूरितश्च । तच्छब्देन सर्वं जगदधिरितम्, कम्पिता भूमिः, गिरिशिखराणि तुत्रुटुः, सा नगरी तु विशेषाच्चकम्पे । ततः कृष्णश्चिन्तयतिकिमेष प्रलयकालकलनामापन्नोऽयं शङ्खनादः श्रूयते ? तावताऽऽयुधपालेन कृष्णस्य यथार्थो व्यतिकरः कथितः । ततो नेमिकुमारपराक्रमेण विस्मितो हरिर्बलदेवं प्रत्येवं बभाण । यस्य नेमिकुमारस्यैतादृशं सामर्थ्यमस्ति, स वर्धमानो मदाज्यं सुखेन लास्यति । ततोऽस्य बलं परीक्ष्य राज्यरक्षणोपायं चिन्तयामः । बलदेवेन भणितमलमनयाऽलीकशङ्कया, येनायं पूर्व केवलिभिनिर्दिष्टो द्वाविंशतितमो जिनः, त्वं पुनर्भरतार्धस्वामी नवमवासुदेवः । अयं च भगवानकृतराज्य एव परित्यक्तसकलसावद्ययोगः प्रव्रज्यां ग्रहीष्यति ।
एवं निरन्तरं बलदेवेन राज्यहरणशङ्कया वार्यमाणोऽपि कृष्णः कदाचिदुद्याने गत्वा नेमिनं प्रत्येवमाह-कुमार! निजनिजबलपरीक्षार्थमावां बाहुयुद्धेन युध्यावः । नेमिना भणितं किमनेन बुधजननिन्दनीयेन बाहुयुद्धेन ? वाग्युद्धेनैवावां युध्यावः । बाहुयुद्धेन हारितस्य तव महानयशःप्राग्भारो भविष्यति । कृष्णेनोक्तं क्रीडया युध्यतोरावयोः कीदृशोऽयमयश:समूहः ? ततो भगवता नेमिना स्वबाहुः प्रसारितः, कथितं चायं मदीयो बाहुर्यदि भवता नामितस्तदा त्वया जितम्, मया च हारितमिति । ततः कृष्णेन सर्वशक्त्यान्दोलितोऽपि भगवद्वाहुर्न मनाक् चलितः । यथास्य भगवतो मनो निश्चलं तथा बाहुरपि निश्चल एवेति जनैः प्रशंसा कृता । ततः परमचमत्कारं गतस्य स्वराज्यहरणशङ्काकुलित चेतसो नारायणस्य कियान् कालोऽतिक्रान्तः ।