________________
२२, रथनेमीयमध्ययनम्]
[२३ "'सो धम्मो जत्थ दया, दसट्ठदोसा न जस्स सो देवो ।
सो हु गुरू जो णाणी, आरंभपरिग्गहा विरओ ॥ १ ॥" श्रावकधर्मं प्रपद्य तौ दम्पती तुष्टौ । यतिना तयोः पुनरेवं शिक्षा प्रदत्ता, यथा
"२जत्थ वसेज्जा सड्ढो, जईहिं सह जत्थ होई संजोगो। जत्थ चेइयभवणं, अनोवि जत्थ साहम्मी ।। १ ।। देवगुरूण तिसंझं, करेज्ज तह परमवंदणं विहिणा ।
तह पुप्फवत्थमाइहि, पूयणं सव्वकालंपि ।। २ ॥ अन्यच्च - "अपुव्वनाणगहणं, पच्चक्खाणं सुधम्मसवणं च ।
कुज्जा सइ जह सत्ति, तवसज्झायाइजोगं वा ॥ १ ॥ अन्यच्च - "५भोअणसमए सयणे, विबोहणे पवेसणे भए वसणे ।
पंचनमोक्कारं खलु, समरेज्जा सव्वकज्जेसु ॥ १ ॥" एवं तयोः शिक्षां दत्वा साधुरन्यत्र विजहार । तौ दम्पती स्वगृहे गतौ साधूपदीष्टं धर्मानुष्ठानं कुरुतः। कालक्रमेण ताभ्यां यतिधर्मः प्रतिपन्नः । कालं कृत्वा धनः सौधर्मदेवलोके देवत्वेनोत्पन्नः । सा स्त्री तु तस्यैव मित्रदेवत्वेनोत्पन्ना। तत्र सुरसुखमनुभूय धनदेवजीवो वैताढये सूरतेजोराज्ञः पुत्रश्चित्रगतिनामा विद्याधरराजो जातः, धनवत्यपि कस्यचिदाज्ञः कन्या जाता, परिणीता च चित्रगतिनैव । तत्र मुनिधर्मं कृत्वा माहिदे धणो समाणिओ इयरो य तन्मित्तो जाओ, ततो चइऊण धणो अवराजिओ नाम राया जाओ, सा च पिईमई तस्स पत्ती, काउं समणधम्मं गयाई' द्वावपीमावारण्यकल्पे मित्रदेवौ जातो, ततश्च्युतो धनदेवजीवः शङ्खराजा जातः, धनवतीजीवश्च तस्यैव कान्ता जाता । तत्र शङ्खराजा प्रतिपन्नमुनिधर्मो विंशतिस्थानकैर्निबद्धतीर्थङ्करनामगोत्रः कालं कृत्वाऽपराजितविमाने समुत्पन्नः । तत्कान्तापि धर्मप्रभावेण तत्रैवोत्पन्ना। १ स धर्मो यत्र दया, दशाष्टदोषा न यस्य स देवः ।
स हु गुरु यो ज्ञानी, आरंभ-परिग्रहाभ्यां विरतः ॥१॥ २ यत्र वसेत् श्राद्धः, यैः सह यत्र भवति संयोगः । यत्र चैत्यभवनमन्येऽपि यत्र साधर्मिणः ॥१॥ ३ देवगुरुणां त्रिसन्ध्यं, कुर्यात् तथा परमवन्दनं विधिना ।
तथा पुष्पवस्त्रमादिभिः, पूजनं सर्वकालेऽपि ॥२॥ ४. अपूर्वज्ञानग्रहणं, प्रत्याख्यानं सुधर्मसेवनं च ।
कुर्यात् सदा यथाशक्तिस्तपःस्वाध्यायादियोगान् वा ॥१॥ ५ भोजन समये शयने, विबोधने प्रवेशने भये व्यसने । पञ्चनमस्कारं खलु, स्मरेत् सर्वकार्येषु ॥१॥ ६ माहेन्दे धनः सामानिकः, इतरश्च तन्मित्र जातः, ततः च्यत्वा धनोऽपराजितो नामा राजा जातः, सा च प्रीतिमति तस्य पत्नी, कृत्वा श्रमणधर्म गतौ ।