________________
॥ २२ रथनेमीयमध्ययनम् ॥
पूर्वस्मिन्नध्ययने विविक्तचर्या धृतिमता कार्या, तत्र च कदाचिन्मनः परिणामाद्धर्माद्भ्रष्टा भवन्ति तदा रथनेमिवच्चरणे धृतिराधेया, तद्दृष्टान्तमाह-तत्र श्रीनेमिनाथेन कस्मिन् भवे तीर्थङ्करनामकर्म निबद्धमिति शिष्यकौतुकापनोदाय श्रीनेमिचरितं लेशतो लिख्यते
एकस्मिन् सन्निवेशे ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत्, तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या । अन्यदा भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यम् । तत्रैकं पथः परिभ्रष्टं क्षुधातृषापरिश्रमातीरेकनिमिलितलोचनं भूमितलमतिंगतं कृशशरीरं मुनिवरं ददर्श । तं च दृष्ट्वा स कुलपुत्र एवं चिन्तितवान्अहो ! एष महातपस्वीदृशीं विषमावस्थामापन्नः, ततस्तं जलेन सिक्तवान्, चेलाञ्चलेन
वीजितवांश्च, स्वास्थ्यमापन्नो नीतः स्वग्रामम्, प्रतिजागरितश्चषधपथ्याहारादिभिः ।
मुनिनापि दत्त उपदेश:, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यम् । ततो भवद्भ्यामपि परमांस-मद्या -ऽऽखेटकादिनियमं कर्तव्यं यदि पालयितुं शक्तौ, यतो बहुदोषाण्येतानि, यदुक्तम्
तथा
अपि च
तथा
-
पंचिदियवहभूयं मंसं दुग्गंधमसुइबीभच्छं । रक्खपरितुलिय भक्खग, भीईजणयं कुगईमूलं ॥ १ ॥ गुरुमोहकलहनिद्दा, परिहर उवहासरोगभयहेऊ । मज्जं दुग्गइमूलं, हिरिसिरिमहधम्मनासकरं ॥ २ ॥ 'मज्जे महुंमि मंसंमि, नवणीयंमि चउत्थए । उप्पज्जंति असंखा, तव्वण्णा जत्थ जंतुणो ॥ ३ ॥ 'सपरोवघायजणणी, इहेव तह नरयतिरियगइमूलं । देहमारणस्स य हेऊ, पावद्धी वेरवुड्ढिकरा ॥ ४ ॥
इदं श्रुत्वा संविग्नाभ्यां ताभ्यां भणितम्, भगवन् ! देह्यस्माकं गृहस्थावस्थोचितं
धर्मम् । यतिना तु सम्यक्त्वमूलद्वादशव्रतरूपो धर्मस्तयोर्दत्तः, उक्तं च
I
१ पतितं । २ संभाळ लीधी
३ पञ्चेन्द्रियवधभूतं, मांसं दुर्गन्धमशुचिबीभत्सम् ।
रक्षः परितुलितो भक्षकः, भीतिजनकं कुगतिमूलम् ॥ १ ॥
४ गुरुमोहकलहनिदं परिहर उपहासरोगभयहेतुम् । मद्यं दुर्गतिमूलं, ही श्री मति-धर्मनाशकरम् ॥ २ ॥
५ मद्ये च मांसे नवनीते चतुष्टये । उत्पद्यन्ते असङ्ख्येयास्तद्वर्णा यत्र जन्तवः ॥ ३ ॥
६ स्वपरोपघातजननी, इहैव तथा नरक- तिर्यग्गतिमूलम् । देहमारणस्य च हेतु, पापर्द्धिवैरवृद्धिकरा ॥४॥