________________
२१, समुद्रपालीयमध्ययनम् ]
__ [२१ विवित्तलयणाई भएज्ज ताई, निरोवलेवाइ असंथडाइ। इसीहि चिन्नाइ महाजसेहिं, काएण फासिज्ज परीसहाई ॥२२॥
पुनः समुद्रपालितः साधुः कीदृशः ? 'तायी' त्रायते-रक्षति कायषट्कमिति त्रायी, षट्कायरक्षाकारको मुनिरित्यर्थः । स विविक्तलयनानि स्त्रीपशुपण्डकरहितानि धर्मस्थानानि भजेत् । कीदृशानि विविक्तलयनानि ? निरुपलेपानि द्रव्य-भावतश्च लेपरहितानि, दव्यतो हिसाधुनिमित्तेन न लिप्तानि, गृहस्थेन स्वार्थं लिप्तानीत्यर्थः । भावतस्तु रागादिलेपरहितानि, मदीयानीमानि स्थानानीति रागबुद्धया रहितानि । पुनः कीदृशानि? असंथडाइ' असंस्तृतानि शाल्यादिबीजैरव्याप्तानि, सचित्तबीजसघट्टरहितानि । पुनः कीदृशानि ? महायशोभिः ऋषिभिश्चीर्णान्यङ्गीकृतानि सेवितानीत्यर्थः । पुनः समुद्रपालितः साधुः कायेन परीषहान् 'फासिज्ज' इति स्पृशेत्, द्वाविंशतिपरीषहान् सहेत ॥ २२ ॥
स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरे नाणधरे जसंसी, उभासइ सूरिएतलिक्खे ॥ २३ ॥
स समुद्रपालो महर्षिरनुत्तर-प्रधानं धर्मसञ्चयं दशविधधर्म चरित्वाऽराध्याऽवभासतेशोभते । कीदृशः सः ? ज्ञानज्ञानोपगतः, ज्ञानेन-श्रुतज्ञानेन यद् ज्ञान-सम्यक्रियाकलापवेदनं ज्ञानज्ञानम्, तेनोपगतः सम्यग्ज्ञान-क्रियासहितः, पुनः कीदृशः ? यशस्वी, स क इव ? अन्तरिक्षे - आकाशे सूर्य इव, यथाकाशे सूर्यो विराजते, तथा स तपस्तेजसा विराजते इत्यर्थः ॥ २३ ॥
दुविहं खविऊण य पुण्णपावं, निरंगणे सव्वओ विप्पमुक्के । तरित्ता समुदं च महाभवोहं, समुद्दपाले अपुणागमं गई गइ ॥२४॥
त्तिबेमि समुद्रपालः साधुरपुनरागमगतिं गतः, न विद्यते पुनरागमो यस्याः साऽपुनरागमा, अपुनरागमा चासौ गतिश्चाऽपुनरागमगतिस्तां गतिम्, यत्न गतौ गतानां जीवानां पुनः संसारे आगमो न भवति, मोक्षं गत इत्यर्थः । किं कृत्वा मोक्षं गतः ? द्विविधं घातिकं भवोपग्राहिकं पुण्यपापं शुभाशुभप्रकृतिरूपं क्षपयित्वा सम्पूर्णं भुक्त्वा, पुनः किं कृत्वा ? महाभवौधं समुदं तरित्वोल्लङ्घ्य, महान्तश्च ते भवाश्च महाभवाः, तेषामोघः समूहो यत्र स महाभवौघः, तमेतादृशं समुद्रमर्थात्संसारसमुदं विलय सिद्धो बभूवेत्यर्थः । परं कीदृशः स समुद्रपालितः साधुः ? सर्वतो बाह्या-ऽभ्यन्तरपरिग्रहाद्विप्रमुक्तः, अथवा शरीरसङ्गादपि विप्रमुक्तः । पुनः कीदृशः सः ? निरङ्गनो निर्गतमङ्गनं-चलनं यस्मात्स निरङ्गनः, संयमे निश्चलः, अङ्गेर्गत्यर्थत्वात्, साधुमार्गे निश्चलचित्त इत्यर्थः । इत्यहं ब्रवीमि, हे जम्बू ! श्रीवीरवाक्यात्तवाग्रे इत्यमुना प्रकारेणाहं समुद्रपालितसाधुसम्बन्धं ब्रवीमि ॥ २४ ॥
इति समुद्रपालीयमेकविंशमध्ययनं सम्पूर्णम् ॥ २१ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामेकविंशाध्ययनस्यार्थः सम्पूर्णः॥