________________
[१९
२१, समुद्रपालीयमध्ययनम्] कालेण कालं विहरेज्ज रहे, बलाबलं जाणिय अप्पणो ऊ । सीहो व्व सद्देण न संतसिज्जा, वययोगं सुच्चा न असब्भमाहु ॥१४॥
पुनः स साधुः कालेन प्रस्तावेन प्रथमपौरुष्यादिसमयेन कालमवसरयोग्यं कार्य ध्यानानुष्ठानतपस्यादिकं कुर्वन् राष्ट्रे-मण्डले विचरेत् । किं कृत्वा ? आत्मनो बलाबलं ज्ञात्वा, परीषहादिसहनसामर्थ्य विचार्य, यथा संयमयोगहानिर्न स्यात्तथेति भावः । पुनः स साधुः सिंह इव शब्देन भयोत्पादकेन न सन्त्रसेत् सत्वान्नात्रसत्, अत एव वाग्योगं श्रुत्वादुःखोत्पादकं वचनं श्रुत्वा, खलानामसभ्यं वचनं कर्णे विधायाऽसभ्यं वचनं न आह-न बूयात् आर्षत्वादाहुरिति ॥ १४ ॥
उवेहमाणो उ परिव्वइज्जा, पियमप्पियं सव्व तितिक्खइज्जा। न सव्व सव्वत्थभिरोयइज्जा, न यावि पूयं गरहं च संजए ॥१५॥
तु-पुनः स साधुरुपेक्ष्यमाणोऽसभ्यवचनमवगणयन् परिव्रजेत्, मनसि वचसि दुर्वचनमधारयन् ग्रामानुग्रामेष्वतिशयेन विचरेत्, प्रियं च पुनरप्रियं सर्वं तितिक्षेत् । लोकानां सम्यग्वचनं दुष्टं वचनं च सहेत । पुनः स समुद्रपालितसाधुः सर्वं वस्तु सर्वत्र न रोचयेत्, आत्मने नाभिलषयेत् । च पुनः स संयतः- स साधुः पूजामपि-स्तुतिरूपां वाणीमपि निश्चयेन गहाँ निन्दां परापवादरूपामपि न रोचयेत् । यतो हि स समुद्रपालितसाधुदृष्टादृष्टपदार्थेष्वभिलाषुको माभूदिति भावः ॥ १५ ॥
ननु किं भिक्षोरप्यन्यथाभावः स्यात्, येनेत्थमित्थमात्मनोऽनुशासनमसौ चक्रे, इत्याहअणेगछंदा इह माणवेहिं, जे भावओ संपगरेइ भिक्खू ।। भयभेखा तत्थ उविति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा ॥१६॥
इहास्मिन् जगति मानवेषु-मनुष्येष्वनेकानि छन्दासि बहवोऽभिप्राया वर्तन्ते, याननेकानभिप्रायान् भावतस्तत्त्ववृत्त्या भिक्षुरपि सम्प्रकरोति । अतस्तत्र दीक्षायां भयभेरवाः- प्रचुरभयोत्पादका भीमा - रौद्राः, दिव्या - देवसम्बन्धिनः, अथवा मानुष्यामनुष्यसम्बन्धिनः, तिर्यञ्चास्तिर्यग्योनिसम्बन्धिन उत्पद्यन्ते ॥ १६ ॥
परीसहा दुन्विसहा अणेगे, सीयंति जत्थ बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज भिक्खू, संगामसीसे इव नागराया ॥१७॥
दुर्विषहा-दुःखेन सोढुं शक्याः परीषहा अनेके उत्पद्यन्ते इति सम्बन्धः । यत्र येषूपसर्गेषूत्पन्नेषु बहुकातरा नरा-अनेके कातराः सीदन्ति, संयमात् श्लथीभवन्ति । स साधुस्तत्र परीषहे प्राप्ते-उदयमागते सति न व्यथेन्न सत्वाच्चलेत् । क इव ? नागराज इवगजराज इव, यथा गजराजः सङ्ग्रामशीर्षे-युद्धप्रकर्षे न विपरीतमुखो भवति ॥ १७ ॥