________________
१८]
[उत्तराध्ययनसूत्रे-भाग-२ . स समुद्रपालो भगवान् - माहात्म्यवान् सम्बुद्धः- प्रतिबुद्धः सन् परमसंवेगमागतः, परमवैराग्यं प्राप्तः । मातापितरमापृच्छ्यानगारत्वं प्रवजितः, प्रकर्षेणाङ्गीकृतवान् ॥१०॥
जहित्तु संगं थ महाकिलेसं, महंतमोहं 'किसणं भयावहं । परियायधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परिसहे य ॥११॥
समुदपालो भगवान् आत्मने 'परियायधम्म' प्रव्रज्याधर्ममभिरोचयेत् । च पुनर्वतानि अहिंसानृतास्तेयब्रह्माकिञ्चनत्वलक्षणानिपञ्च, तथा शीलान्युत्तरगुणरूपाणि शुद्धाचारगोचरीकरणसप्ततिरूपाणि, तान्यप्यात्मनेऽभिरोचयेत्, अर्थात्प्रव्रज्यां जग्राहेत्यर्थः । किं कृत्वा ? सङ्ग-स्वजनादिसम्बन्धं त्यक्त्वा, थ' पादपूरणे । कथंभूतं सङ्गम् ? 'महाकिलेसं' महान् क्लेशो यस्मात्स महाक्लेशस्तम् । पुनः कथंभूतं सङ्गं ? महान् मोहो यस्मिन् स महामोहस्तं महामोहं - प्रचुराज्ञानसहितम् । पुनः कथंभूतं ? किसणं' कृष्णलेश्याया हेतुम्, तस्मात्कृष्णम्, पुनः कथंभूतं ? भयानकं भयजनकमित्यर्थः ॥ ११ ॥
अहिंससच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवज्जिया पंच महव्वयाई, चरिज्ज धम्मं जिणदेसियं विऊ ॥१२॥
तानि पञ्चव्रतानां नामान्याह-अहिंसा, जीवानां वधो हिंसा, न हिंसाऽहिंसा सर्वजीवेषु दया प्रथमम् १ । च पुनः सत्यम् २ । च पुनरस्तैन्यकम्, स्तेनस्य चौरस्येदं कर्म स्तैन्यम् न स्तैन्यमस्तैन्यम् अस्तैन्यमेवाऽस्तैन्यकम् ३ । ततोऽनन्तरं ब्रह्म-शीलम् ४ । च पुनरपरिग्रहं सर्वथा लोभत्यागः ५ । स समुद्रपालः पञ्च महाव्रतानीमानि प्रतिपद्य जिनदेशितं धर्म चरेत्-सेवेत, महाव्रतानि गृहीत्वैकत्र न तिष्ठेदिति भावः । कथंभूतः सः ? 'विऊ' इति विद्वान्, वेत्ति हेयोपादेयविधीनिति विद्वान् ॥ १२ ॥
सव्वेहिं भूएहि दयाणुकंपे, खंतिखमे संजय बंभयारी । सावज्जजोगं परिवज्जयंते, चरिज्ज भिक्खू सुसमाहिइंदिए ॥ १३ ॥
'भिक्खू' इति भिक्षुः समुद्रपालितसाधुः सुसमाहितेन्द्रियः सन् 'चरिज्ज' इति विचरति स्म । कथंभूतः सः ? सर्वेषु भूतेषु दयानुकम्पी, सर्वेषु प्राणिषु दयया हितोपदेशरूपयाऽनुकम्पनशीलो दयापालनपरः स दयानुकम्पी, पुनः कथंभूतः ? क्षान्तिक्षमः, क्षान्त्या, तत्वलोचनया क्षमते दुष्टानां दुर्वचनताडनादिकमिति क्षान्तिक्षमः, पुनः कथंभूतः ? संयतः साध्वाचारपालकः, पुनः कथंभूतः ? ब्रह्मचारी, ब्रह्मणि-परमात्मस्वरूपे चरतीति ब्रह्मचारी ब्रह्मचर्यधारको वा । पुनः स किं कुर्वन् विचरते स्म ? सावद्ययोगं वर्जयन्, सपापयोगं परित्यजन् ॥१३॥ १ कासिणं - अन्यसंस्करणे।