________________
२१, समुद्रपालीयमध्ययनम्]
[१७ बावत्तरीकलाओ य, सिक्खिए नीइकोविए।
जोवणेण य संपन्ने, सुरूवे पियदंसणे ॥ ६ ॥ च-पुनः स समुद्रपालो द्वासप्ततिकलाशिक्षितः सन्नीतिकोविदोऽभूत्, लोकनीतिधर्मनीतिचतुरोभूत् । च - पुनर्योवनेन सम्पन्नः-सञ्जात इति गम्यम् । कथंभूतः सः ? प्रियदर्शनः, पुनः कथम्भूतः समुद्रपालः ? सुरूपः- सुन्दररूपः ॥ ६ ॥
तस्स रूववइं भज्जं, पिया आणेइ रूविणि ।
पासाए कीलिए रम्मे, देवो दोगुंदगो जहा ॥७॥ अथ तस्य समुद्रपालस्य पिता पालितो रूपवती भार्यां रूपिणीतिनाम्नीमानयतिपरिणायति स्म।ततो रम्ये - रमणीके प्रासादे क्रीडां करोति ।को यथा? दोगुन्दको देवो यथा, यथेन्द्राणां पूज्यस्थानीयो देवः सुखानि भुङ्क्ते, तथा सुखं भुङ्क्ते इत्यर्थः ॥७॥
अह अन्नया कयाई, पासायालोयणे ठिओ ।
वज्झमंडणसोभागं, वज्झं 'पस्सई बज्झगं ॥८॥ अथानन्तरं समुद्रपालोऽन्यदा कदाचित् प्रासादस्य - धवलगृहस्यालोकने प्रासादालोकने मन्दिरगवाक्षे स्थितो वध्यं - चौरं पश्यति, वधाया) वध्यस्तम् । कीदृशं वध्यम् ? वध्यमण्डनशोभाकं, वध्यस्य - चौरस्य यानि मण्डनानि रक्तचन्दननिम्बपत्रकरवीरपुष्पस्त्रगादीनि वध्यमण्डनानि, तैः शोभा यस्यासौ वध्यमण्डनशोभाकस्तम् । पुनः कीदृशं ? बाह्यगं - बहिर्भवं बाह्यं बहिर्भूमण्डलम्, तद्गच्छति - प्राप्नोतीति बाह्यगस्तम्, राजपुरुषैबहिनिःसारयन्तम् । अथवा वध्यगम्, इह वध्यशब्देनोपचाराद्वध्यभूमिरुच्यते, तत्र वध्यभूमौ गच्छन्तम् ॥८॥
तं पासिऊण संविग्गो, समुद्दपालो इणमब्बवी ।
अहो असुहाण कम्माणं, निज्जाणं पावगं इमं ॥९॥ समुद्रपालः संवेगं प्राप्तः सन्निदमब्रवीत् । किं कृत्वा ? तं चौरं-वध्यं दृष्ट्वा, इदमिति किं ? अहो इत्याश्चर्येऽशुभानां कर्मणामिदं पापकं निर्याणमशुभं प्रान्तं दृश्यते ॥९॥
संबुद्धो सो तहिं भयवं, परमसंवेगमागओ ।
आपुच्छऽम्मापियरं, रेपव्वइए अणगारियं ॥१०॥ १ पासइ - अन्यसंस्करणे ॥ २ आपुच्छऽम्मापिअरो-अन्यसंस्करणे, तत्र तस्य वृत्तिरपि एवं-"आपृच्छय माता-पितरौ-" इति
बृहवृत्त्याम्॥ ३ पव्वए-अन्यसंस्करणे।