________________
॥२१ समुद्रपालीयमध्ययनम् ॥ पूर्वस्मिन्नध्ययनेऽनाथत्वमुक्तम्, तदनाथत्वं विविक्तचर्यया विचार्यते, अतोऽस्मिन्नध्ययने विवक्तचर्योच्यते
चंपाए पालिए नाम, सावए आसि वाणिए ।
महावीरस्स भगवओ, सीसो सो उ महप्पणो ॥१॥ ___ 'चंपाए' इति चम्पायां नगर्यां पालित इति नाम्ना श्रावको देशविरतिधारी वणिगासीत् । कीदृशः स वणिक् ? भगवतो महावीरस्य महात्मनो - महापुरुषस्य तीर्थकरस्य शिष्यः शिक्षाधारकः । सो उ' इति स पुनः पालितो नाम श्राद्धः कीदृशो वर्तते ? तदाह-॥१॥
निग्गंथे पावयणे, सावए से वि कोविए ।
पोएण ववहरंते, पिहुंडं नगरमागए ॥ २ ॥ स पालितनामा श्रावको महात्मा नैर्ग्रन्थे प्रावचने-श्रीवीतरागस्य सिद्धान्ते कोविदोऽभूत् । स पालित एकदा पोतेन व्यावहरन्-प्रवहणेन वाणिज्यं कुर्वन् पिहुण्डं नाम नगरमागतः । चम्पानगरीतः प्रवहणमारुह्य व्यापारार्थं पिहुण्डनगरं समायात इति ॥२॥
पिहुंडे ववहरंतस्स, वाणिओ देइ धूयरं ।
तं ससत्तं पइगिज्झ, 'सयं देसं पइट्ठिए ॥ ३ ॥ अथ तत्र पिहुण्डनगरे कश्चिद्वणिक् व्यवहरतस्तस्य पालितस्य गुणैः सन्तुष्टः सन् पालिताय धूयरमि' ति पुत्री ददाति । स च पालितस्तां परिणीय कतिचिद्दिनानि तत्र स्थित्वा तां वणिक्पुत्रीं ससत्त्वां-सगर्भा प्रतिगृह्य स्वकं देशं प्रति प्रस्थितः, पिहुण्डाच्चम्पां प्रति चलितः ॥३॥
अह पालियस्स घरणी, समुइंमि य पसवई ।
अह दारए तर्हि जाए, समुद्दपालो त्ति नामए ॥४॥ अथानन्तरं पालितस्य गृहिणी समुद्रे दारकं प्रसूते स्म । अथ तस्मिन् दारके-पुत्रे जाते सति समुद्रपाल इति नामतः स बाल आसीदिति शेषः ॥ ४ ॥
खेमेण आगए चंपं, सावए वाणिए घरं ।
संवड्डइ घरे तस्स, दारए से सुहोइए ॥ ५ ॥ तस्मिन् पालिते नाम्नि वणिजि चम्पायां नगर्यां क्षेमेण-सुखेन गृहमागते सति समुद्रपालो बालकः संवर्धते । कीदृशः स बालकः ? सुखोचितः- सुखयोग्यः ॥५॥ १सदेसमह पत्थिओ- अन्य संस्करणे ॥