SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २०, महानिर्ग्रन्थीयमध्ययनम्] [१५ उस्ससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो ॥५९ ॥ नराधिपः श्रेणिकोऽतियातो - गृहं गतः । किं कृत्वा ? शिरसा मस्तकेनाभिवन्द्यमुनि नमस्कृत्य, पुनः किं कृत्वा ? प्रदक्षिणां कृत्वा-प्रदक्षिणां दत्त्वा । कथंभूतो नराधिपः ? 'उस्ससियरोमकूवो' उच्छ्वसितरोमकूपः, साधोदर्शनाद्वाक्यश्रवणादुलसितरोमकूपः॥५९॥ इयरोवि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओय। विहंग इव विप्पमुक्को, विहरड् वसुहं विगयमोहो॥६०॥त्तिबेमि अथेतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि-मुनिरपि वसुधां-पृथिवीं विहरति विहारं करोति । कीदृशः सन् ? विमोहः सन्-मोहरहितः सन्, अर्थात् केवली सन् । कीदृशो मुनिः ? गुणसमृद्धः सप्तविंशतिसाधुगुणसहितः, पुनः कीदृशः ? त्रिदण्डविरतस्त्रिदण्डेभ्यो मनोवक्कायानामशुभव्यापारेभ्यो विरतः, पुनः कीदृशः ? विहग इव विप्रमुक्तः, पक्षीव क्वचिदपि प्रतिबन्धरहितो निष्परिग्रह इत्यर्थः । इति सुधर्मास्वामी जम्बूस्वामिनं प्रति वदति, अहमिति ब्रवीमि ॥६०॥ इति महानिर्ग्रन्थीयमध्ययनं विंशतितमं सम्पूर्णम् ॥ २० ॥ ___इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां महानिग्रन्थीयाख्यं विंशतितममध्ययनं समाप्तं श्रीरस्तु ।
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy