________________
१४]
[ उत्तराध्ययनसूत्रे-भाग-२ कृताञ्जलिर्बद्धाञ्जलिः । इदमिति किं ? हे मुने ! यथाभूतं यथावस्थितमनाथत्वं मे - मम सुष्टुपदर्शितम्, त्वया 'मे' ममाऽनाथत्वं सम्यग्दर्शितमिति भावः ॥५४ ॥ तुम्हा सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी। तुज्झे सणाहा य सबंधवा य, जं भेठिया मग्गे जिणुत्तमाणं ॥५५॥
किं श्रेणिक आह-हे महर्षे ! मानुष्यं जन्म 'खु' इति निश्चयेन सुलब्धम्' सफलं त्वदीयं मानुष्यं जन्म । हे महर्षे ! त्वयैव लाभा रूपवर्णविद्यादीनां लाभाः सुलब्धाः, रूपलावण्यादिप्राप्तयः सुप्राप्ताः । हे महर्षे ! यूयमेव सनाथाः, आत्मनो नाथत्वान्नाथसहिताः, च पुनयमेव सबान्धवा ज्ञातिकुटुम्बसहिताः, यद्यस्मात्कारणात् भे' भवन्तो जिनोत्तमानांतीर्थङ्कराणां मार्गे स्थिताः ॥५५॥
तं सि णाहो अणाहाणं, सव्वभूयाण संजया।
खामेमि ते महाभाग, इच्छामि अणुसासिउं ॥५६ ॥ हे संयत ! त्वमनाथानां सर्वभूतानां त्रसानां स्थावराणां जीवानां नाथोऽसि । हे महाभाग ! हे महाभाग्ययुक्त ! 'ते' इति त्वामहं क्षमामि । मया पूर्वं यस्तवापराधः कृतः स क्षन्तव्य इत्यर्थः । अथ भवतोऽनुशासयितुं - त्वत्तः शिक्षयितुमात्मानमिच्छामि, मदीय आत्मा तवाज्ञावर्ती भवत्वितीच्छामीत्यर्थः ॥५६॥
पुच्छिऊण मए तुझं, झाणविग्यो य जो कओ।
निमंतिओ य भोगेहिं, तं सव्वं मरिसेहि मे ॥५७॥ हे महर्षे ! मया तुभ्यं पृष्ट्वा-प्रश्नं कृत्वा यस्तव ध्यानविघ्नः कृतः, च पुनर्भोगैः कृत्वा निमन्त्रितः, भो स्वामिन् ! भोगान् भुझ्वेत्यादिप्रार्थना तव कृता, तं सर्वं मे ममापराधं क्षन्तुमर्हसि, सर्वं ममापराधं क्षमस्वेत्यर्थः ।। ५७ ॥ एवं थुणित्ताण स रायसीहो, अणगाारसीहं परमाइ भत्तीए । सओरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा ॥५८ ॥
स राजसु सिंहो राजसिंहः- श्रेणिको राजा एवममुना प्रकारेण तमनगारसिंह-मुनिसिंह परमयोत्कृष्टया भक्त्या स्तुत्वा विमलेन-निर्मलेन चेतसा धर्मानुरक्तोऽभूदिति शेषः । कीदृशः श्रेणिकः? सावरोधोऽन्तःपुरेण सहितः, पुन कीदृशः? सपरिजनः सह परिजनैवर्तत इति सपरिजनो भृत्यादिवर्गसहितः पुनः कीदृशः ? सबान्धवः सह बान्धवैर्धातृप्रमुखैर्वर्तत इति सबान्धवः । पुरापि वनवाटिकायां सर्वान्तः पुरपरिजनबान्धवकुटुम्बसहित एव क्रीडां कर्तुमागात्, ततो मुनेर्वाक्यश्रवणात् सर्वपरिकरयुक्तो धर्मानुरक्तोऽभूदित्यर्थः ॥५८ ॥