________________
२६६ ]
[ उत्तराध्ययनसूत्रे-भाग-२
सव्वट्टसिद्धगा चेव, पंचहाणुत्तरा सुरा । इइ वेमाणिया एए, गहा एवमाईओ ॥ २९८ ॥
विजया विजयविमानवासिनः, विजयन्ते समस्तविघ्नहेतूनिति विजया इति व्युत्पत्तिः । तथा वैजयन्ताः, एवं जयन्तास्तथाऽपराजिताः, अपरैरन्यैरभ्युदयविघ्नहेतुभिः शत्रुभिरजिता अपराजिताः । पुनः सर्वार्थसिद्धकाः, सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, सर्वार्थसिद्धा एव सर्वार्थसिद्धकाः इत्यमुना प्रकारेणैते पञ्चधा अनुत्तरदेवाः । एवमादिका व्याख्याता द्वादशदेवलोकभवा नवग्रैवेयकभवाः पञ्चानुत्तरभवाः सुरा एवमादयो ज्ञेयाः । चतुरशीतिलक्षाणि सप्तनवतिसहस्राणि तथा त्रयोविंशतिरेतत्प्रमाणम्, सर्वविमानापेक्षयानेकविधा आख्याताः ॥ २१७-२१८ ॥
लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ २१९ ॥
ते सर्वे देवा लोकस्यैकदेशे परिकीर्तिताः, इतोऽनन्तरं कालविभागं तु तेषां देवानां चतुर्विधं वक्ष्ये ॥ २१९ ॥
संत पप्पाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ २२० ॥
सन्ततिं प्राप्य ते देवा अनादयोऽपर्यवसिता अपि, स्थितिं कायस्थितिं प्रतीत्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ २२० ॥
साहियं सागरं इक्कं, उक्कोसेण ठिई भवे ।
भोमिज्जाणं जहन्त्रेणं, दसवाससहस्सिया ॥ २२१ ॥
'भोमिज्जाणं' इति भवनपतीनां देवानामुत्कृष्टेनायुः स्थितिः साधिकं सागरोपमं वर्तते । जघन्येन दशवर्षसहस्त्रिका स्थितिर्व्याख्याता ।। २२१ ॥
पलिओवममेगं तुं, उक्कोसेण ठिई भवे ।
वंतराणं जहन्नेणं, दसवाससहस्सिया ।। २२२ ॥ व्यन्तराणामुत्कृष्टेनैकं पल्योपममायुः स्थितिर्भवेत्, तु पुनर्व्यन्तराणां जघन्येन दशवर्षसहस्रिका भवेत् ॥ २२२ ॥
पलिओवमं तु एगं, वासलक्खेण साहियं । पलिओवमट्टभागो, जोइसेसु जहन्निया ॥ २२३ ॥