________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२६५ महाशुक्रे भवा महाशुक्राः, सहस्रारे भवाः साहस्राराः, आनते भवा आनताः, तथा प्राणते भवाः प्राणताः, अरणे भवा आरणाश्च, अच्युते भवा अच्युताश्चारणाच्युताः, इत्यमुना प्रकारेण द्वादशविधाः कल्पोपगताः सुरा ज्ञेयाः ॥ २१३ ॥
कप्पाईया य जे देवा, दविहा ते वियाहिया ।
गेविज्जाऽणुत्तरा चेव, गेविज्जा नवविहा तर्हि ॥२१४ ॥ च पुनस्ते कल्पातीता देवास्ते द्विविधा व्याख्याताः, ग्रैवेयका अनुत्तराश्च, तत्र ग्रैवेयका नवविधाः । तत्र ग्रीवा लोकपुरुषस्य त्रयोदशरज्ज्वात्मकस्थानीयप्रदेशः, तत्र ग्रीवायामतीवशोभाकरणहेतव आभरणभूता ग्रैवेया देवावासाः, तत्र भवा देवा ग्रैवेयकास्ते नवप्रकारा ज्ञेयाः ।। २१४॥
तेषां ग्रैवेयकाणां नामानिहिट्ठिमाहिट्ठिमा चेव, हिट्ठिमामज्झिमा तहा । हिट्ठिमोवरिमा चेव, मज्झिमाहिट्ठिमा तहा ॥ २१५ ॥ मज्झिमामज्झिमा चेव, मज्झिमोवरिमा तहा । उवरिमाहिट्ठिमा चेव, उवरिमामज्झिमा तहा ॥ २१६ ॥ युग्मम् ॥
उपरितनषट्कापेक्षया प्रथमेष्वधस्तना अधस्तनाः, चैव पादपूरणे, प्रथमग्रैवयकदेवा : १ ।अधस्तनाश्च मध्यमाश्चाधस्तनमध्यमा द्वितीयौवेयकदेवाः २ । तथाधस्तनोपरि-तनास्तृतीयौवेयकदेवाः३। तथा मध्यमाधस्तना मध्यमस्थ त्रिकापेक्षयाऽधस्तना मध्यमाधस्तनाश्चतुर्थग्रैवेयकदेवाः ४॥२१५॥च पुनर्मध्यममध्यमा मध्यमस्थत्रिकापेक्षया मध्यमा मध्यममध्यमाः पञ्चमग्रैवेयकदेवाः ५ । तथा मध्यमोपरितना मध्यमत्रिकापेक्षयोपरितना मध्यमोपरितनाः षष्ठौवेयकदेवाः ६ । पुनरुपरितनाधस्तनाः, उपरिस्थत्रिकापेक्षयाऽधस्तना उपरितनाधस्तनाः सप्तमग्रैवेयकदेवाः ७। तथोपरितनमध्यमा, उपरितनत्रिकापेक्षया मध्यमा मध्यस्था उपरितनमध्यमा अष्टमग्रैवेयकदेवाः ८ ॥ २१६ ॥ अथ नवमवेयकदेवानां नामोच्यते
उवरिमाउवरिमा चेव, इइ गेविज्जगा सुरा । च पुनरुपरिमोपरिमा उपरिस्थत्रिकापेक्षयोपरिमा उपरिमोपरिमा नवमग्रैवेयकदेवा इत्यमुना प्रकारेण नवग्रैवेयकाः सुरा व्याख्याताः । अथानुत्तरविमानान्याह
विजया वैजयंता य, जयंता अपराजिता ॥ २१७॥