________________
२६४]
[उत्तराध्ययनसूत्रे-भाग-२ व्यन्तरा अष्टविधा:-पिशाचाः १, भूताः २, यक्षाः ३, राक्षसाः ४, किन्नराः च ५, किंपुरुषाः ६, महोरगाः ७, गन्धर्वाः, एवमष्टप्रकारा व्यन्तरा ज्ञेयाः ॥२०९ ॥ अथ ज्योतिष्काणां भेदान्नामत आह
चंदसूरा य नक्खत्ता, गहा तारगणा तहा ।
'ठिया विचारिणो चेव, पंचहा जोइसालया ॥२१०॥ ज्योतिरालयाः, ज्योतिरालयो-गृहं येषां ते ज्योतिरालया ज्योतिष्का देवाः पञ्चधा सन्तीति शेषः, ते ज्योतिष्का देवाः 'ठिया' इति स्थिरा मनुष्यक्षेत्राहियोतिष्कास्ते च स्थिरा अचलस्वभावाः, मनुष्यक्षेत्रान्तर्वतिनो हि मेरुपर्वतस्य नित्यं प्रादक्षिण्यचारिणस्ते पञ्चधा ज्योतिष्का ज्ञेयाः। ते चाऽमी-चन्द्राः १, सूर्याश्च २, नक्षत्राणि ३, ग्रहा ४,स्तारगणाः ५, प्रकीर्णकतारकसमूहास्तथा ज्ञेयाः ॥२१० ॥ अथ वैमानिकानां भेदानाह
वेमाणिया उजे देवा, दुविहा ते वियाहिया ।
कप्पोवगा य बोधव्वा, कप्पाईया तहेव य ॥२११ ॥ तु पुनर्वैमानिका ये देवास्ते द्विविधा व्याख्याताः । कल्पा देवलोकास्तानुपगच्छन्तीत्युत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगा द्वादशदेवलोकस्थाः कल्पोपगाः, च पुनस्तथैव कल्पातीताः, कल्पानतीता इति कल्पातीताः, नवग्रैवेयकपञ्चानुत्तरविमानस्थाः । एवं वैमानिका द्विप्रकारा ज्ञातव्याः ॥ २११ ॥
अथ कल्पोपगतानां नामान्याहकप्पोवगा बारसहा, सोहम्मीसाणगा तहा । सणंकुमारमाहिंदा, बंभलोगा य लांतगा ॥२१२ ॥ महासुक्का सहस्सारा, आणया पाणया तहा । -
आरणा अच्चुया चेव, इइ कप्पोवगा सुरा ॥२१३ ॥ युग्मम् ॥
कल्पोपगा द्वादशधा, सुधर्मानामेन्द्रस्य सभाऽस्मिन्नस्तीति सौधर्मः प्रथमकल्पः, एवमीशानो द्वितीयकल्पः, सौधर्मे श्वेशानश्च सौधर्मेशानौ, तौ गच्छन्ति प्राप्नुवन्तीति सौधर्मेशानगाः, तथा पुनः सनत्कुमारदेवलोके भवाः सानत्कुमारा: महेन्द्रे भवा माहेन्द्राः सनत्कुमाराश्च माहेन्द्राश्च सनत्कुमारमाहेन्द्राः, पुनर्ब्राह्मलोका ब्रह्मलोके भवाः, च पुनर्लान्तनामानं कल्पं गच्छन्तीति प्राप्नुवन्तीति लान्तगाः ॥२१२ ॥ १दिसा-अन्यसंस्करणे ॥