________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२३१ संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया। सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ ४८ ॥ जीवा द्विधा व्याख्याताः, ते के ? संसारस्थाः, संसारो गतिचतुष्टयात्मकः, तत्र तिष्ठन्तीति संसारस्थाः, च पुनः सिद्धाः कर्ममलरहिता भवभ्रमाणानिवृत्ताः । तत्र च सिद्धा अनेकविधा उक्ताः, 'तमिति' तान् सिद्धभेदान् 'मे' मम कीर्तयतः कथयतस्त्वं श्रृणु ॥४८॥
इत्थी पुरिससिद्धा य, तहेव य नपुंसगा।
सलिंगा अन्नलिंगा य, गिहलिंगे तहेव य ॥४९॥ 'इत्थी' इति स्त्रियः पूर्वपर्यायापेक्षया सिद्धाः स्त्रीसिद्धाः १ । एवं पुरुषपर्यायात्सिद्धाः पुरुषसिद्धाः २ । तथैव-तेनैव प्रकारेण नपुंसकपर्यायात्सिद्धा नपुंसकसिद्धाः, नपुंसकाच्च कृत्रिमा एव सिद्धा भवन्ति, न तु जन्मनपुंसकाः सिद्धयन्ति ३ । स्वलिङ्गसिद्धा यतिवेषण सिद्धाः ४ । अन्यलिङ्गसिद्धा बौद्धपरिव्राजकादिवेषेण सिद्धाः ५, तथैव गृहिलिङ्गे सिद्धा गृहस्थवेषे सिद्धाः६।षड् भेदाः सिद्धानामुक्ता 'ग्रन्थान्तरे पञ्चदश भेदा अपि । जिनसिद्धस्तीर्थकरः १ । अजिनसिद्धो गणधरः २, तीर्थसिद्धः पुण्डरीकादिः ३, अतीर्थसिद्धो मरुदेवादिः ४, गृहलिङ्गसिद्धो भरतादिः ५, अन्यलिङ्गसिद्धो वल्कलचीरिप्रमुखः ६, स्वलिङ्गसिद्धः साधुः ७, स्त्रीलिङ्गसिद्धश्चन्दनबालादिः ८, नरसिद्धः स्थविरः ९, नपुंसकसिद्धो गाङ्गेयादिः १०, प्रत्येकबुद्धः करकण्ड्वादिः ११, स्वयम्बुद्धः कपिलकेवल्यादिः १२, बुद्धबोधितसिद्धः १३, एकसमये एकसिद्धः १४, एकसमयेऽनेकसिद्धः १५ ।एवं पञ्चदश भेदा अपि षट्स्वेवान्तर्भवन्ति ॥ ४९ ॥ अथ सिद्धानेवाऽवगाहनातः क्षेत्रतश्चाह
उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य ।
उड्ढे अहे य तिरियं च, समुइंमि जलंमि य ॥५०॥ अस्यां गाथायामुत्कृष्टावगाहनायां, तथा जघन्यावगाहनायां च पुनर्मध्यमावगाहनायां कति सिद्धाः कुत्र कुत्र स्थाने भवन्ति ? तदाह-उत्कृष्टावगाहनायाम्, अवगाह्यते जीवेनाकाशोऽनयेत्यवगाहना, उत्कृष्टा चासाववगाहना चोत्कृष्टावगाहना, तस्यामुत्कृष्टावगाहनायां सिद्धाः। च पुनर्जघन्यमध्यमयोः, जघन्या च मध्यमा च जघन्यमध्यमे, तयोर्जघन्यमध्यमयोर्जघन्यावगाहनायां तथा मध्यमावगाहनायाम्, उत्कृष्टावगाहनाया जघन्यावगाहनायाशान्तर्वर्तिनी मध्यमावगाहना, तस्यां सिद्धाः । 'उड्डे' इत्यूर्ध्वलोके मेरुचूलादौ चैत्यवन्दनां कर्तुं गतानां केषाञ्चिच्चारणश्रमणानां सिद्धिः स्यात्, तदा ते श्रमणास्तत्र कियन्तः सिद्धा
१ नवतत्त्वप्रकरणे॥