________________
२३२]
[उत्तराध्ययनसूत्रे-भाग-२ भवन्ति ? एवमधोलोके ग्रामनगरादौ सिद्धाः कियन्तो भवन्ति ? एवं तिर्यग्लोके साधुतृतीयद्वीपेषु, समुदे जले नद्यादौ, एतेषु स्थानेष्वेकस्मिन् समये कियन्तः सिद्धा भवन्तीति प्रश्नः ॥५०॥ अर्थतेषामेवोत्तरं वदन्ति
दस य नपुंसएसु, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समयेणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समयेणेगेण सिज्झई ॥५२॥ उक्कोसावगाहणाए उ, सिझंते जुगवं दुवे ।
चत्तारि जहन्नाए, जवमज्झमझुत्तरं सयं ॥ ५३ ॥ चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य । सयं च अद्भुत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥५४ ॥
एतासां चतसृणां गाथानामर्थः-च शब्दः समुच्चये, 'दसे' ति, दससङ्ख्याका नपुंसकेष्वेकस्मिन् समये सिद्ध्यन्ते, च पुनर्विंशतिः स्त्रीषु सिद्ध्यन्ति पुरुषेषु च ‘अट्ठसयं' इत्यष्टभिरधिकं शतमष्टशतमेकस्मिन् समये सिद्ध्यन्ति ॥५१ ॥ गृहिणो गृहस्थस्य लिङ्गं गृहलिङ्गं, तस्मिन् गृहलिङ्गे चत्वारः सिद्ध्यन्ति, एकस्मिन् समये सिद्धि प्राप्नुवन्ति । अन्यलिङ्गे बौद्धादिवेषे दशसङ्ख्याकाः सिद्ध्यन्ति । स्वलिङ्गेन रजोहरणादिसाधुवेषेणैकेन समयेनाष्टोत्तरशतं सिद्धयन्ति ॥५२॥ उत्कृष्टावगाहनायां पञ्चशतधनुःप्रमाणायां युगपत्समकालमेकेन समयेन द्वौ सिद्धयतः, जघन्यावगाहनायां द्विहस्तप्रमाणायां चत्वारः सिद्ध्यन्ति । तथा 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना, तस्यां मध्यमावगाहनायामेकेन समयेनाष्टोत्तरशतं सिद्ध्यन्ति ॥ ५३ ॥ चत्वार ऊर्ध्वलोके, द्वौ समुद्रे, जले त्रयः सिद्ध्यन्त्येकेन समयेन, विंशतिरध इत्यधोलोके, तिर्यग्लोके एकैक समयेनाष्टोत्तरशतं सिद्ध्यन्ति । तुशब्दः पुनरर्थे , ध्रुवमिति निश्चयार्थे । इति गाथाचतुष्टयार्थः ॥५४॥ अथ तेषामेव प्रतिघातादिप्रतिपादनायाह
कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया ।
कहिं बोंदि चइत्ताणं, कत्थ गंतूण सिज्झइ ॥५५॥ 'कहि' इति कस्मिन् प्रतिहताः स्खलिताः सन्ति ? कोऽर्थः ? कुत्र सिद्धाः निरुद्धगतयो वर्तन्ते ? ते सिद्धा कस्मिन् प्रतिष्ठिताः सन्ति ? साद्यपर्यवसितं कालं स्थिताः सन्ति ? पुनः