________________
२३०]
[ उत्तराध्ययनसूत्रे - भाग - २
भइए से उ वन्नओ ।
जे आययसंठाणे, गंधओ रसओ चेव, भइए फासओवि य ॥ ४६ ॥
यः पुद्गल आयतसंस्थानः स वर्णतो गन्धतो रसतः स्पर्शतश्चापि भाज्यः । एवं संस्थानपञ्चकभङ्गसंयोगे लब्धं शतम् ॥ ४७ ॥ इति पुद्गलानां वर्णगन्धरसस्पर्शसंस्थानानां भेदा उक्ताः । अथ तेषां क्रमेण प्रत्येकं सङ्ख्यां वदन्ति । तद्यथा-एकस्मिन्नेकस्मिन् पुद्गलाश्रितवर्णे गन्धौ द्वौ रसाः पञ्च, स्पर्शा अष्टौ, संस्थानानि पञ्च एवं सर्वेऽपि विंशतिर्भेदा भवन्ति । कृष्णनीललोहितपीतशुक्लानां पञ्चानां वर्णानां प्रत्येकं प्रत्येकं विंशति विंशति र्भेदमीलनाच्छतं भेदा वर्णपुद्गलस्य ।
अथ गन्धयोर्द्वयोः षट्चत्वारिंशद्भेदा भवन्ति, तद्यथा-वर्णाः पञ्च, रसाः पञ्च, स्पर्शा अष्टौ संस्थानानि पञ्च, एवं सर्वे त्रयोविंशतिसङ्ख्याकाः, ते च सुगन्धदुर्गन्धयोस्त्रयोविंशतित्रयोविंशतिप्रमिताः, उभयमीलने षट्चत्वारिंशद्भवन्ति ।
अथ रसपुद्गलानां शतं भेदा भवन्ति, तद्यथा-वर्णाः पञ्च गन्धौ द्वौ, स्पर्शा अष्टौ, संस्थानानि पञ्च, इति विंशतिर्भेदाः, प्रत्येकं प्रत्येकं तिक्तकटुकषायाम्लमधुरादिपञ्चभिभक्ताः सन्तः शतं भेदा भवन्ति ।
अथ स्पर्शभेदाः षट्त्रिंशदधिकं शतं, तद्यथा-वर्णाः पञ्च गन्धौ द्वौ, रसाः पञ्च, संस्थानानि पञ्च, एवं सप्तदश भेदाः, ते च खरमृदुगुरुलघुरूक्षस्निग्धशीतोष्णपुद्गलैभर्गुणिताः षट्त्रिंशदधिकशतं भेदा भवन्ति । प्रज्ञापनायां स्पर्शपुद्गलानां चतुरशीत्यधिकशतं (१८४) भेदा उक्ताः सन्ति, तद्यथा-वर्णाः पञ्च, रसाः पञ्च गन्धौ द्वौ, स्पर्शाः षडत्र गृह्यन्ते । यतो हि यत्र खरस्पर्शः पुद्गलो गण्यते, तत्र तदा मृदुः पुद्गलो न गण्यते । यत्र स्निग्धो गण्यते, तदा तत्र रूक्षो न गण्यते, परस्परविरोधिनौ ह्येकत्र न तिष्ठतः, तस्मात् स्पर्शाः षट्, संस्थानानि पञ्च, एवं सर्वे मीलितास्त्रयोविंशतिर्भवन्ति । ते त्रयोविंशतिभेदाः प्रत्येकं खरमृदुगुरुलघुस्निग्धरूक्षशीतोष्णाद्यष्टाभिः पुद्गलैर्गुणिताश्चतुरशीत्यधिकशतं (१८४) भेदा भवन्ति । वीतरागोक्तं वचः प्रमाणम्, येन यादृशं ज्ञातम्, तेन तादृशं व्याख्यातम् । तत्त्वं केवली वेद । एवं वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गङ्कसङ्कलनातो जातानि द्व्यशीत्यधिकानि चत्वारि शतानि ( ४८२ ) सर्वत्र जातावेकवचनं, परिस्थूलन्यायेनैतदुक्तम्, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गाः सम्भवन्ति ॥ ४६ ॥ अथोपसंहारेणोत्तरग्रन्थसम्बन्धमाह
एसाऽजीवविभत्ती, समासेण वियाहिया ।
एत्तो जीवविभत्ति, वच्छामि अणुपुव्वस्सो ॥ ४७ ॥
एषाऽजीवविभक्तिः समासेन सङ्क्षेपेण व्याख्याता । 'इतो', इतीतोऽनन्तरम् 'अणुपुव्वसो' इत्यानुपूर्व्याऽनुक्रमेण जीवविभक्तिं प्रवक्ष्यामि ॥ ४७ ॥