________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२२९ फासओ णिद्धओ जे उ, भइए से उवण्णओ।
गंधओ रसओ चेव, भइए संठाणओवि य ॥ ४०॥ ___ यः पुद्गलः स्पर्शतः स्निग्धो भवति, घृतादितुल्यो भवति, स पुद्गलो वर्णतो गन्धतो रसतः संस्थानतश्च भाज्यः ॥ ४० ॥
फासओ लुक्खए जे उ, भइए से उ वण्णओ।
गंधओ रसओ चेव, भइए संठाणओवि य ॥४१॥ यः पुद्गलः स्पर्शतो रूक्षो भवति, स पुद्गलो वर्णतो गन्धतो रसतः संस्थानतश्च भाज्यः । एवं स्पर्शाष्टकमीलने जातं षट्त्रिंशं शतं (१३६) ॥४१॥ अथ संस्थानभेदानाह
परिमंडलसंठाणे, भइए से उ वन्नओ ।
गंधओ रसओ चेव, भइए फासओवि य ॥ ४२ ॥ यः परिमण्डलसंस्थानपुद्गलः, स वर्णतो गन्धतो रसतो भाज्यः, तथा स्पर्शतोऽपि भाज्यः । एकस्मिन् परिमण्डलसंस्थाने 'चूडिकाकृतिमति पुद्गले वर्णानां पञ्चानां मध्ये कश्चिद्वर्णो भवति, गन्धयोरुभयोर्मध्ये कश्चिद्गन्धो भवति, रसानां पञ्चानां मध्ये कश्चिद्रसो भवति, स्पर्शानामष्टानां मध्ये कश्चित्स्पर्शो भवति ॥ ४२ ॥
संठाणओ भवे वट्टे, भइए से उ वन्नओ।
गंधओ रसओ चेव, भइए फासओवि य ॥४३॥ यः पुद्गलः संस्थानतो 'वट्टे' इति वर्तुलो लड्डुकाकृतिर्भवति, स पुद्गलो वर्णतो गन्धतो रसतश्च भाज्यः, तथा स्पर्शतोऽपि भाज्यः ॥ ४३ ॥
संठाणओ भवे तंसे, भइए से उ वन्नओ।
गंधओ रसओ चेव, भइए फासओवि य ॥४४॥ यः पुद्गल: संस्थानतस्तिस्रो भवेत्, सोऽपि पुद्गलो वर्णतो गन्धतो रसतश्च भाज्यः, तथा स्पर्शतोऽपि भाज्यः ॥ ४४ ॥
संठाणओ य चउरंसो, भइए से उ वनओ ।
गंधओ रसओ चेव, भइए फासओवि य ॥ ४५ ॥ यः पुद्गलः संस्थानतश्चतुरस्रो भवेत्, सोऽपि वर्णतो गन्धतो रसतश्च स्पर्शतश्चापि भाज्यः ॥४५॥
१बंगडी जेवा आकारवाळा ।
૧૬