________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२२३ ____एते स्कन्धा: च पुनः परमाणव एकत्वेन पुनः पृथक्त्वेन, एकत्वेन समानपरिणतिरूपेण लक्ष्यन्ते, पृथक्त्वेन परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्ते इत्यध्याहारः । इति द्रव्यतो लक्षणमुक्तम् ।अथैतानेव क्षेत्रत आह-ते स्कन्धाः परमाणवश्च लोए' इति लोकस्य चतुर्दशरज्ज्वात्मकस्यैकदेशः, एकद्वयादिसङ्ख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च भक्तव्या-भजनीयाः क्षेत्रत:-क्षेत्रमाश्रित्य । अत्र च स्कन्धपरमाणूनां ग्रहणेऽपि परमाणूनामेवैकप्रदेशावस्थानत्वात्, स्कन्धाश्च बहुप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत्सकललोके तिष्ठन्ति, परिणतेविचित्रत्वात् । 'इत्तोत्ति' इतः क्षेत्रप्ररूपणातोऽनन्तरं तेषां स्कन्धानां परमाणूनां च कालविभागं - कालभेदं चतुर्विधं वक्ष्ये, साद्यनादिसपर्यवसिताऽपर्यवसितभेदेन कथयिष्यामि । इदं च सूत्रं षट्पादं गाथेत्युच्यते ॥ ११ ॥
संतई पप्प तेऽणाई, अपज्जवसियावि य ।
ठिइं पडुच्च साइया, सपज्जवसियावि य ॥१२॥ ते स्कन्थाः परमाणवश्च सन्ततिमपरापरोत्पत्ति प्रवाहरूपां प्राप्याऽनादय-आदिरहितः, तथा अपर्यवसिता-अन्तरहिताः । स्थिति प्रतीत्य क्षेत्रावस्थानरूपां स्थितिमङ्गीकृत्य सादिकाः सपर्यवसिताश्च वर्तन्ते ॥१२॥ सादिसपर्यवसितत्वेऽपि कियत्कालमेषां स्थितिरित्याह
असंखकालमुक्कोसं, इक्कं समयं जहन्नयं ।
अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥१३॥ स्कन्धानां परमाणूनां चोत्कृष्टाऽसङ्ख्यकालं स्थितिः, जघन्यिका एकसमया स्थितिः । एषा अजीवानां रूपिणां पुद्गलानां स्थितियाख्याता, एतस्मादुक्तकालात्परतोऽवश्यमेव विचटनात् ॥१३॥ अथ कालतः स्थितिमुक्त्वा तदन्तर्गतमन्तरमाह
अणंतकालमुक्कोसं, इक्कं समयं जहन्नयं ।
अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥ १४ ॥ अजीवानां रूपिणां पुद्गलानां स्कन्धदेशप्रदेशपरमाणूनामन्तरं विवक्षितक्षेत्रावस्थिते: प्रच्युतानां पुनस्तत्क्षेत्रप्राप्तेर्व्यवधानमन्तरमुत्कृष्टमनन्तकाल भवति । जघन्यमेकसमयं भवति । इदमन्तरं तीर्थकरैर्व्याख्यातम् । पुद्गलानां हि विवक्षितक्षेत्रावस्थितितः प्रच्युतानां कदाचिसमयावलिकादिसङ्ख्यातकालतो वा पल्योपमादेर्यावदनन्तकालादपि तत्क्षेत्रावस्थितिः सम्भवतीति भावः ॥१४॥ १ इतोऽग्रे मुद्रिते एवं पाठः-स्कन्धा हि संहतानेकपरमाणुरूपाः मु. १ नास्ति ॥