SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२२] [ उत्तराध्ययनसूत्रे - भाग - २ क्षेत्र सार्धद्वयद्वीपसमुदात्मकं समयक्षेत्रं, तत्र भवः समयक्षेत्रिकः, सार्धद्वयद्वीपेभ्यो बहिस्तु समय आवलिका दिवसमासादिकालभेदा मनुष्यलोकाऽभावान्न विवक्षिताः ॥ ७ ॥ पुनरेतानेव कालत आह धम्माधम्मागासा, तिन्निवि एए अणाइया । अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ॥ ८ ॥ धर्माधर्माकाशान्येतानि त्रीण्यपि सर्वाद्धमिति सर्वकालं सर्वदा स्वस्वरूपाऽपरित्यागेन नित्यान्यनादीनि च पुनरपर्यवसितान्यन्तरहितानि व्याख्यातानि ॥ ८ ॥ कालस्वरूपमाह समवि संत पप्प, एवमेव वियाहिया । आएसं पप्प साईए, सपज्जवसिएवि य ॥ ९ ॥ समयोऽपि कालोऽप्येवमेव यथा धर्माधर्माकाशान्यानाद्यनन्तानि तथा कालोऽप्यनाद्यनन्त इत्यर्थः । किं कृत्वा ? सन्ततिं प्राप्य, अपरापरोत्पत्तिरूपप्रवाहात्मिकामाश्रित्य । कोऽर्थः ? यदा हि कालस्योत्पत्तिर्विलोक्यते, तदा कालस्यादिरपि नास्ति, अन्तोऽपि नास्तीत्यर्थः । पुनरादेशं प्राप्य कार्यारम्भमाश्रित्य कालः सादिक - आदिसहितः, तथा सपर्यवसितोऽवसानसहितो व्याख्यातः । यदा च यत्किञ्चित्कार्यं यस्मिन् काले आरभ्यते, नदा तत्कार्यारम्भवशात्कालस्याप्युपाधिवशादादिः, एवं कार्यारम्भसमाप्तौ कालस्याप्यन्तो व्याख्यात इत्यर्थः ॥ ९ ॥ अथ रूपिणोऽजीवाश्चतुर्विधाश्चतुर्भेदा उच्यन्ते खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोधव्वा, रूविणोवि चउव्विहा ॥ १० ॥ रूपिणोऽप्यजीवाश्चतुर्विधाश्चतुष्प्रकाराः, के ते भेदाः ? तानाह - स्कन्धाः १ । यत्र पुञ्जे परमाणवो विचटनान्मिलनाच्च न्यूना अधिका अपि भवन्ति, एतादृशाः परमाणुपुञ्जा: स्कन्धदेशाः २ । तथा तत्प्रदेशास्तेषां स्कन्धानां निर्विभागा अंशाः स्कन्धप्रदेशाः ३ । तथैवेति पूर्ववत् । च पुनः परमाणवो बोधव्याः, परमाणव एव परस्परममिलिता इत्यर्थः ४ । एवं चत्वारो रूपिणश्चतुर्विधा बोधव्या इति भावः । अत्र च मुख्यवृत्त्या रूपीद्रव्यस्य द्वौ भेदौ, परमाणवः स्कन्धाश्च, देशप्रदेशयोः स्कन्धेष्वेवान्तर्भावः ॥ १० ॥ अथ स्कन्धानां परमाणूनां लक्षणमाह एगत्तेण पुहुत्तेण, खंधा य परमाणुणो । लोएगदेसे लोए य, भइअव्वा ते उ खित्तओ ॥ इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ ११ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy