________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२२१ तिरिक्ता अरूपिण इत्यर्थः । तत्राऽरूपिणोऽजीवा दशधा उक्ताः, रूपिणोऽजीवाश्रतुर्विधाः प्रोक्ताः ॥ ४॥ पूर्वं दशविधत्वमाहधम्मत्थिकाए तद्देसे, तप्पएसे य आहिए । अहम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥ आगासे तस्स देसे य, तप्पएसे य आहिये ।
अद्धासमए चेव, अरूवी दसहा भवे ॥ ६ ॥ युग्मम् ॥ अरूप्यजीव एवं दशधा भवेदिति द्वितीयगाथयान्वयः। प्रथमं धर्मास्तिकायः, धरति जीवपुद्गलौ प्रति गमनोपकारेणेति धर्मः, तस्यास्तयः-प्रदेशसद्भावास्तेषां कायः-समूहो धर्मास्तिकायः, सर्वदेशप्रदेशानुगतसमानपरिणतिमद्व्यमिति भावः १ । पुनस्तद्देशस्तस्य धर्मास्तिकायस्य कतमो विभागो देशस्तृतीयचतुर्थादिभागस्तद्देशो धर्मास्तिकायदेशः २ । पुनस्तत्प्रदेशस्तस्य धर्मास्तिकायविभागस्यातिसूक्ष्मो निरंशोंशप्रदेशो धर्मास्तिकायप्रदेशस्तीर्थकरैराख्यातः-कथितः ३ । एवमधर्मो जीवपुद्गलयोः स्थिरकारी धर्मास्तिकायाद्विरुद्धोऽधर्मास्तिकायः ४ । पुनस्तस्याऽधर्मास्तिकायस्यापि देशस्तद्देशः, एकः कश्चिद्भागोऽधर्मास्तिकायदेशः ५ । एवं पुनस्तस्याऽधर्मास्तिकायस्य प्रदेशोंशस्तत्प्रदेश आख्यातः, अधर्मास्तिकायप्रदेश इत्यर्थः ६ । इत्यनेन षड् भेदा अरूपिणोऽजीवद्रव्यस्य । ____ अथ शेषाश्चत्वार उच्यन्ते-'आगास' इति सप्तमो भेद आकाशमाकाशास्तिकायः, जीवपुद्गलयोरवकाशदाय्याकाशम् ७। तस्याकाशस्य देशः कतमो विभाग आकाशास्तिकायदेशः ८ । तस्याकाशास्तिकायस्य निरंशो देशस्तत्प्रदेश आकाशास्तिकायप्रदेशः ९ । दशमो भेदश्चाद्धासमयोऽद्धाकालो वर्तमानलक्षणस्तदपः समयोऽद्धासमयः, अस्यैक एव भेदो निर्विभागत्वाद्देशप्रदेशो कालस्य न सम्भवतः१०।एवं दशभेदाअरूपिणो ज्ञेयाः॥६॥ एतानरूपिणः क्षेत्रत आह
धम्माधम्मे य दो एए, लोगमित्ता वियाहिया ।
लोगालोगे य आगासे, समए समयखित्तिए ॥७॥ धर्माधर्मी-धर्मास्तिकायाऽधर्मास्तिकायावेतौ द्वावपि लोकमात्रौ व्याख्यातौ, यावत्परिमाणो लोकस्तावत्परिमाणो धर्मास्तिकायाऽधर्मास्तिकायौ चतुर्दशरज्जवात्मकलोकव्याप्ती, इत्यनेनाऽलोके धर्माधर्मों न स्तः। आकाशं लोकालोके वर्तते, इत्यनेनाकाशास्तिकायश्चतुर्दशरज्ज्वात्मकलोकं व्याप्त स्थितः, ततो बहिरलोकमपि व्याप्याकाशास्तिकायः स्थित इत्यर्थः । समयः समयादिकः कालः समयक्षेत्रिको व्याख्यातः । समयोपलक्षितं