________________
॥३६ जीवाजीवविभक्त्याख्यमध्ययनम् ॥ पूर्वस्मिन्नध्ययनेऽनगारमार्ग उक्तः, सच जीवाजीवादितत्त्वज्ञानं विना न स्यात्, अतो जीवाजीवविभक्त्याख्यं षट्त्रिंशमध्ययनं व्याख्यायते
जीवाजीवविभत्ति, सुणेह मे एगमणा इओ।
जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ भो शिष्याः ! एकाग्रमनसः सन्तो यूयं तां जीवाजीवविभक्ति-जीवाजीवादीनां लक्षणं 'मे' मम कथयतः सतः श्रृणुत । जीवाश्च अजीवाश्च जीवाजीवास्तेषां विभक्तिर्लक्षणज्ञानेन पृथक्पृथक्करणं जीवाजीवविभक्तिस्ताम्, उपयोगवान् जीव एकेन्द्रियादिः, उपयोगरहितोऽजीवः काष्ठादिः, इत्यादिजैनमतोक्तलक्षणेन लक्ष्यज्ञानम्, तामिति कां ? यां जीवाजीवविभक्तिं ज्ञात्वा भिक्षुः संयमे-संयममार्गे सम्यग् यतते-यत्नं कुरुते ॥१॥
जीवा चेव अजीवा य, एस लोए वियाहिए।
अजीवदेसे आगासे, अलोगे से वियाहिए ॥२॥ जीवाश्चेतनालक्षणात्मकाः, च पुनरजीवा अचेतनात्मकाः, चकार एवकारश्च पादपूरणे । एष लोको व्याख्यातस्तीर्थकरैरुक्तः। अजीवदेश आकाशमलोको व्याख्यातः । अजीवस्य धर्मास्तिकायादिकस्य देशोंशोऽजीवदेशो धर्मास्तिकायादिवृत्तिरहितस्याकाशस्यैव देशः सोऽलोको व्याख्यातः । जीवाजीवानामाधेयभूतानां लोकाकाशमाधारभूतं, अतो लोकाकाशलक्षणमुक्तम् ॥२॥ जीवाजीवविभक्तिर्यथा स्यात्तथाह
दव्वओ खित्तओ चेव, कालओ भावओतहा।
परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥ द्रव्यतो द्रव्यमाश्रित्येदं दव्यमियद्भेदं, क्षेत्रत इदं दव्यमेतावति क्षेत्रे स्थितम्, कालत इदं दव्यमियत्कालस्थितिमद्वर्तते, भावतोऽस्य द्रव्यस्येयन्तः पर्यायाः। एवं तेषां जीवद्रव्याणामजीवद्रव्याणां च द्रव्य-क्षेत्र-काल-भावेन चतुर्धा प्ररूपणा भवेत् ॥३॥ अथ तावदजीवद्रव्यप्ररूपणायाः स्वल्पत्वादजीवद्रव्यस्यैव प्ररूपणा कथ्यते
रूविणो य अरूवी य, अजीवा दुविहा भवे ।
अरूवी दसहा वुत्ता, रूविणो य चउव्विहा ॥४॥ अजीवा द्विविधा भवेयुः । एकेऽजीवा रूपिणो-रूपवन्तः, च पुनरन्येऽजीवा अरूपिणोऽरूपवन्तः, तत्र रूपं स्पर्शाद्याश्रयभूतं मूर्तं, तदस्ति येषु ते रूपिणः, तद्वय