________________
३५, अनगारमार्गगत्याख्यमध्ययनम् ]
[ २१९
मुनि: ? जिह्वादान्तः, प्राकृतत्वाद्दान्तजिह्वो वशीकृतरसनः पुनः कीदृश: ? अमूर्च्छितः संनिधेरकरणेन, आगामिदिनेषु भक्षणार्थं घृतगुडादिसञ्चयकरणरहितः ॥ १७ ॥ अच्चणं सेवणं चेव, वंदणं पूयणं तहा । इड्डीसक्कारसम्माणं, मणसावि न पत्थर ॥ १८ ॥
1
पुनः साधुरेतन्मनसापि न प्रार्थयेन्नाभिलषेत् । यदि मनसापि न प्रार्थयेत्तदा वचनकायाभ्यां दूरत एवापास्तम् । तत् किं किं ? अर्चनं पुष्पादिभिः सत्कारणम्, तथा सेवनं पर्युपासनं चैव पादपूरणे, पुनर्वन्दनं स्तुतिकरणम्, तथा पूजनं वस्त्रादिभिः प्रतिलाभनं न प्रार्थयेत् । पुनः साधुः ऋद्धिसत्कारसन्मानं मनसापि न प्रार्थयेत् । ऋद्धिश्च सत्कारश्च सन्मानं च ऋद्धिसत्कारसन्मानम्, ऋद्धिः श्राद्धानां सम्पत्, अथवा वस्त्रपात्रादिसम्पत्, सत्कारोऽर्थप्रदानादिर्गुणकथनं वा, सन्मानमभ्युत्थानादि, एतत्सर्वं साधुर्नाभिलषेत् ॥ १८ ॥ सुक्कज्झाणं झियाइज्जा, अनियाणे अकिंचणे ।
वोसट्टकाये विहरिज्जा, जावकालस्स पज्जओ ॥ १९ ॥
साधुः शुक्लध्यानं प्रागुक्तं ध्यायेत् । पुनः साधुरनिदानो निदानरहितोऽकिञ्चनोधनादिरहितः, पुनर्व्युत्सृष्टकायः सन् शरीरममत्वरहितः सन् यावत्कालस्य पर्यायो यावन्मृत्योः समयस्तावदेतादृशः सन् विहरेत्, अप्रतिबद्धविहारत्वेन विचरेदित्यर्थः ॥ १९ ॥ निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए ।
चईऊण माणुसं बोंदिं, पहू दुक्खे विमुच्चई ॥ २० ॥
स साधुरेतादृशे मार्गे सञ्चरन् कालधर्मे उपस्थिते सति-मरणे प्राप्ते सति प्रभुर्वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् दुःखाच्छरीरमानसादुःखाद्विशेषेण मुच्यते, मुक्तो भवतीत्यर्थः । किं कृत्वा ? आहारं 'निज्जूहिऊण' इति संलेखनया परित्यज्य, पुनः किं कृत्वा ? मानुषीं बोन्दि-तनुं त्यक्त्वौदारिकशरीरं त्यक्त्वा दुःखरहितो भवतीत्यर्थः ॥ २० ॥ निम्ममे निरहंकारे, वीयरागे अणासवे ।
संपत्ते केवलं नाणं, सासए परिनिव्वुडे ॥ २१ ॥ तिबेमि ॥
एतादृशो यतिः शाश्वतोऽविनश्वरो-मरणधर्मरहितः केवलज्ञानं सम्प्राप्तः सन् परिनिवृत्तो भवति, कर्माभावाच्छीतीभूतो भवति, सिद्धिगतिभाग्भवतीत्यर्थः । कीदृशो यतिः ? निर्ममो लोभरहितः, पुनः कीदृश: ? अनाश्रवः प्राणातिपातादिपञ्चाश्रवरहितः, पुनः कीदृश: ? निरहङ्कारोऽहङ्काररहितः, पुनः कीदृश: ? वीतरागो रागद्वेषरहितः, सुधर्मास्वामी जम्बूस्वामिनं प्रति वक्ति, अहमिति ब्रवीमि वीतरागवचनात् ॥ २१ ॥
इत्यनगारमार्गगत्यध्ययनम् सम्पूर्णम् ॥ ३५ ॥
इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्याय श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् सम्पूर्णम् ॥ ३५ ॥