________________
२१८]
[ उत्तराध्ययनसूत्रे -भाग-२
किणतो कइओ होइ, विक्किणंतो य वाणिओ । कयविक्कiमि वट्टंतो, भिक्खू हवइ न तारिसो ॥ १४ ॥ युग्मम् ॥
।
अनयोर्व्याख्या - भिक्षुः साधुर्हिरण्यं हेम, जातरूपं रूप्यं, चशब्दाद्धनधान्यादि मनसापि न प्रार्थयेत् । यदि मनसापि न प्राथयेत्तदा कथं गृह्णीयात् ? कीदृशो भिक्षुः ? समलेष्टुकाञ्चनः, लेष्टु च काञ्चनं च लेष्टुकाञ्चने, समे लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनः, तुल्यकाञ्चनपाषाणः । पुनः कीदृश: ? क्रयविक्रयाद्विरतः, क्रयश्च विक्रयश्च क्रयविक्रयम्, तस्माद्विरतो रहितः ॥ १३ ॥ क्रयविक्रये दूषणमाह- 'किणंत' इत्यादि, यतो हि साधुः क्रीणन्-मूल्येन वस्तु गृह्णन् क्रयको भवति, इतरलोकवद् ग्राहको भवति । पुनर्विक्रीणानश्च वणिग्भवति । क्रयविक्रये वर्त्तमानो भिक्षुस्तादृशो न भवति, भिक्षुगुणयुक्तो न भवति । सूत्रे हि भिक्षोर्लक्षणमेतादृशं नास्तीत्यर्थः ॥ १४ ॥
भिक्खियव्वं न केयव्वं, भिक्खुणा भिक्खवित्तिणा । कयविक्कओ महादोसो, भिक्खावित्ति सुहावहा ॥ १५ ॥
भिक्षुणा - साधुना भक्षितव्यं याचितव्यं, न तु साधुना क्रेतव्यं, मूल्येन हट्टादौ गृहीतव्यम् । कीदृशेन भिक्षुणा ? भिक्षावृत्तिना, भिक्षया वृत्तिरुदरपूरणं यस्य स भिक्षावृत्तिस्तेन । यतो हि भिक्षोः क्रयविक्रययोर्महान् दोषोऽस्ति । साधोर्भिक्षावृत्तिः सुखावहाऽस्ति । भिक्षया वृत्तिभिक्षावृत्तिः सा सुखमावहति पूरयतीति सुखावहा - सुखपूरका ॥ १५ ॥ समुयाणं उछमेसिज्जा, जहासुत्तमणिदियं ।
लाभालाभंमि संतुट्ठे, पिंडवायं चरे मुणी ॥ १६ ॥
मुनि:- साधुर्यथासूत्रं सूत्रोक्तरीत्याऽनिन्दितं निन्दारहितं समुदानं भैक्ष्यं भिक्षासमूहमेषयेद्गवेषयेत् । कथंभूतं भैक्ष्यम् ? उञ्छमिवोञ्छमन्यान्यपृथक्पृथक्कणग्रहणमिवान्यान्यगृहादल्पाल्पमीलनेन मधुकरवृत्त्या भ्रमन्निच्छेदित्यर्थः । पुनः साधुर्लाभालाभे आहारप्राप्ताप्राप्तौ वा सन्तुष्टः सन् पिण्डपातं भिक्षाटनं चरेदासेवेत । पिण्डाय भिक्षाग्रहणाय पतनंपातः पिण्डपातो, भिक्षार्थं भ्रमणं तमासेवेतेत्यर्थः ॥ १६ ॥
अथ भोजनविधिमाह
अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए ।
न रसट्ठाए भुंजिज्जा, जवणट्ठाए महामुणी ॥ १७ ॥
महामुनिर्यापनार्थं, यापना संयमनिर्वाहः, यापनायै इति यापनार्थं संयमनिर्वाहार्थमाहारं भुञ्जीत । रसो धातुविशेषस्तदर्थमिति रसार्थं - धातुवृद्ध्यर्थं सरसाहारं न भुञ्जीत, केवलं संयमनिर्वाहार्थमेव भुञ्जीतेत्यर्थः । कीदृशो महामुनिः ? अलोलः सरसाहारप्राप्तावचपलः, पुनः कथंभूतः ? रसे न गृद्धो, मधुरादौ तीव्राभिलाषवान्नास्ति । पुनः कीदृशो महा