________________
२२४]
[उत्तराध्ययनसूत्रे-भाग-२ अथ भावतः पुद्गलानाह
वण्णओ गंधओ चेव, रसओ फासओ तहा ।
संठाणओ य विन्नेओ, परिणामो तेर्सि पंचहा ॥१५॥ तेषां पुद्गलानां परिणामो वर्णतो गन्धतो रसतः स्पर्शतस्तथा संस्थानतश्च पञ्चधापञ्चप्रकारो ज्ञेयः । यतो हि पूरणगलनधर्माणः पुद्गलाः, तेषामेव परिणतिः सम्भवति । परिणमनं स्वस्वरूपावस्थितानां पुद्गलानां वर्ण-गन्ध-रस-स्पर्श-संस्थानादेरन्यथाभवनं परिणामः, स पुद्गलानां पञ्चप्रकार इत्यर्थः ॥१५॥
एषामेव प्रत्येकमुत्तरभेदानाह
वण्णओ परिणया जे उ, पंचहा ते पकित्तिया । किण्हा नीला य लोहिया, हालिद्दा सुकिला तहा ॥ १६ ॥
ये पुद्गलाः वर्णतः परिणताः सन्ति, ते पुद्गलाः पञ्चधा प्रकीर्तितास्तीर्थकरैः कथिताः। ते के ? तानाह-कृष्णाः कज्जलवर्णाः, पुनर्नीलाः शुकपिच्छनिभाः गुलिकासदृशा वा, लोहिता रक्ता हिङ्गलवर्णाः, तथा हारिदाः पीता हरितालनिभाः, तथा शुक्लाः शङ्खकुन्दस्फटिकसदृशाः ॥१६॥
गंधओ परिणया जे उ, दविहा ते वियाहिया।
सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७ ॥ ये तु पुद्गला गन्धतः परिणताः सन्ति, ते पुद्गला द्विविधा व्याख्याताः, सुरभिगन्धः परिणामो येषां ते सुरभिगन्धपरिणामाः, सुगन्धत्वेन परिणताश्चन्दनादिवदित्यर्थः । तथैव दुरभिगन्धो येषां ते दुरभिगन्धाः, दुर्गन्धत्वेन लशुनादिवत्परिणताः ॥ १७ ॥
रसओ परिणया जे उ, पंचहा ते पकित्तिया ।
तित्तकडुआ कसाया, अंबिला महुरा तहा ॥१८॥ ये तु पुद्गलाः पुना रसतः परिणतास्ते पञ्चधा परिकीर्तिताः, तिक्ता सुण्ठीमरिचसदृशाः, कटुकाः निम्बसदृशाः, कषायाः खदिरसदृशाः, आम्ला निम्बुकरससदृशाः, मधुराः शर्करासदृशाः ॥१८॥
फासओ परिणया जे उ, अट्टहा ते पकित्तिया।
कक्खडा मउया चेव, गुरूआ लहुया तहा ॥१९॥ स्पर्शतश्च ये परिणताः पुद्गलास्तेऽष्टधा प्रकीर्तिताः, कर्कशा अजालोमसदृशाः, च पुनर्मूदुका:-सुकुमालाः पट्टकूलसदृशाः, गुरुका-लोहपारदसदृशाः, तथा पुनर्लघुका अर्कतूलसदृशाः ॥१९॥