________________
॥३५ अनगारमार्गगत्याख्यमध्ययनम् ॥ पूर्वस्मिन्नध्ययनेऽप्रशस्तलेश्यास्त्याज्याः, प्रशस्ता लेश्याश्च ग्राह्या इत्युक्तम्, अग्रेतनेऽध्ययने च भिक्षूणां गुणा उच्यन्ते । प्रशस्ता लेश्या हि गुणवतां भिक्षूणामेव सम्भवन्तीति पूर्वापरयोः सम्बन्धः।
सुणेह मे एगग्गमणे, मग्गं बुद्धेहिं देसियं ।
जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥१॥ हे शिष्याः ! मम कथयतो यूयमेकाग्रमनसः सन्तस्तं मागं गुणवत्साधुमार्ग श्रृणुत । तमिति कं ? यं मार्ग समाचरन् भिक्षुर्दुःखानामन्तं करोति । कीदृशं तं मागं ? बुधैस्तीर्थङ्करैर्देशितं, विस्तरत्वेन प्रकाशितम् ॥१॥
गिहवासं परिच्चज्ज, पव्वज्जामस्सिओ मुणी ।
इमे संगे वियाणिज्जा, जेहिं सज्जंति माणवा ॥२॥ गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिरिमान् वक्ष्यमाणांस्तान् सङ्गान् पुत्रकलत्रादीन् संसारहेतून् विजानीयात् । तान् कान् सङ्गान् ? यैः सङ्गर्बन्धनैः कृत्वा मानवाः सज्यन्ते, कर्मबन्धनैः कृत्वा संसारिणो बध्यन्ते इत्यर्थः ॥२॥
तहेव हिंसं अलियं, चोज्जं अबंभसेवणं ।
इच्छाकामं च लोहं च, संजओ परिवज्जए ॥३॥ ते के सङ्गा मुनिना त्याज्याः ? इत्याह-संयत एतान् सङ्गान् परिवर्जयेत् । प्रथम हिंसां, तथैवशब्दः पादपूरणे, पुनरलीकं मृषाभाषणं, चौर्यं तथाऽब्रह्मसेवनं-मैथुनसेवनम्, इच्छा वाञ्छारूपः, कामं भोगसुखं, लोभं परिग्रहरूपं परिवर्जयेत्समन्तात्त्यजेत् ॥ ३ ॥
मणोहरं चित्तघरं, मल्लधूवेण वासियं ।
सकवाडं पंडुरुल्लोयं, मणसावि न पत्थए॥४॥ पुनर्मनोहरं चित्रगृहं - विचित्रमन्दिरं, चित्रैः सहितं गृहं वा चित्रगृहम्, कथंभूतं गृहं ? मल्लधूपनवासितम्, माल्यानि च धूपनानिच माल्यधूपनानि, तैर्वासितं माल्यधूपनवासितम्, तत्र माल्यानि ग्रथितपुष्पाणि, धूपनानि दशाङ्गादीनि, तैः सुगन्धीकृतमित्यर्थः । पुनः कीदृशं चित्रमन्दिरं ? सकपाटं कपाटसहितम्, पुनः कीदृशं ? पाण्डुरोल्लोचमुज्ज्वलचन्द्रोपकम्, साधुरेतादृशं गृहं मनसापि न प्रार्थयेत् । अपि शब्दाद्वचसा न प्रार्थयेत् ॥४॥ तादृशे गृहे तिष्ठतः साधोः को दोषः ? तमाह
इंदियाणि उभिक्खुस्स, तारिसंमि उवस्सए । दुक्कराई निवारेउं, कामरागविवड्डणे ॥ ५ ॥