________________
२१६]
[उत्तराध्ययनसूत्रे-भाग-२ तादृशे मनोहरेचित्रमाल्यधूपादिसहिते उपाश्रये भिक्षोः-साधोरिन्द्रियाणितु निवारयितुं, विषयेभ्यो व्यावर्तयितुं दुष्कराणि-दुःशक्यानि । पुनः कीदृशे मन्दिरे ? कामरागविवर्धने, कामा इष्टेन्द्रियविषयाः, तेषु रागः-स्नेहस्तं विवर्धयतीति कामरागविवर्धनं, तस्मिन् ॥५॥ तदा कुत्र स्थातव्यमित्याह
सुसाणे सुन्नगारेवा, रुक्खमूले व एगओ ।
पयरिक्के परकडे वा, वासं तत्थाऽभिरोयए ॥६॥ एकक-एकाकी द्रव्यतो भावतश्च, द्रव्यतः सहायरहितः, भावतो रागादिरहितः, परिवारयुतोऽपि मनसैकत्वं चिन्तयन् साधुस्तत्र-तेषु स्थानेषु वासं-निवासं रोचयेत् आत्मने रोचयेत् । केषु केषु स्थानेष्वित्याह-स्मशाने, पुनः शून्यागारे, वाशब्दश्चार्थे , तथा पुनर्वृक्षमूले, पुनर्वान्यत्र गृहादौ । 'पइरिक्के' इति देशी भाषयेकान्ते स्त्रीपशुपण्डकादिरहिते । पुनः कीदृशे स्थाने ? परकृते, परैरात्मार्थं कृते ॥६॥
फासुयंमि अणाबाहे, इत्थीहिं अणभिदुए।
तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ भिक्षुभिक्षावृत्तिः परमसंयतः-सप्तदशविधसंयमवान् साधुस्तत्र पूर्वोक्तस्थाने स्मशानादौ वासं सङ्कल्पयेत्कुर्यात् । कथंभूते स्थाने ? प्रासुके-जीवरहिते, अनाबाधे स्वाध्यायान्तरायकारणरहिते, पुनः स्त्रीभिरनभिद्रुतेऽकृतोपदवे, स्त्र्यादिसमीपवासरहिते इत्यर्थः ॥७॥
न सयं गिहाई कुव्विज्जा, नेव अन्नेहि कारए।
गिहकम्मसमारंभे, भूयाणं दिस्सए वहो ॥ ८ ॥ साधुः स्वयं गृहाणि न कुर्यात्, न च साधुरन्यैरन्यजनैः कारयेत् । साधुः गृहं न कुर्यान्न च कारयेत् । तत्र को हेतुस्तमाह-यतो गृहकर्मसमारम्भे गृहकर्म इष्टिकामृत्तिकाखननजलाद्यानयनकाष्टादिनिमित्तवृक्षादिच्छेदनादिकर्म गृहकर्म, तस्य समारम्भो गृहकर्मसमारम्भः, तत्र भूतानां-प्राणिनां वधो दृश्यते ॥८॥
तसाणं थावराणं च, सुहुमाणं बायराण य ।
तम्हा गिहसमारंभे, संजओ परिवज्जए ॥ ९ ॥ केषां प्राणिनां वधो दृश्यते ? गृहकर्मसमारम्भे त्रसाणां - द्विन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां, तथा स्थावराणां - पृथिव्यप्तेजोवायुवनस्पतीनां, सूक्ष्माणां लघुतरशरीराणाम्, अथवा सूक्ष्माणां चर्मचक्षुरगोचराणां, बादराणां स्थूलशरीराणां वधो दृश्यते । तस्मादारम्भस्य प्राणिवधहेतुत्वात्संयतः साधुरारम्भं परिवर्जयेत् ॥ ९ ॥