________________
२१४]
[उत्तराध्ययनसूत्रे-भाग-२ लेश्याभिः परिणताभिः सतीभिः शुभाशुभाभिः षड्भिः सतीभिरन्तर्मुहूर्ते गते सत्यन्तर्मुहूर्ते च शेषे सति जीवाः परलोकं-परभवं गच्छन्तीत्यनेन जीवस्य मरणकाले आगामिभवलेश्यान्तर्मुहूर्तं यावदवश्यं भवति । तथा पुनर्जीवस्योत्पत्तिकालेऽतीतभवलेश्यान्तर्मुहूर्तं यावदवश्यं भवति ।अन्यथा नराणां तिरश्चां च देवत्वे नारकत्वे चोत्पत्स्यमानानां मृत्युकालेऽन्तर्मुहूर्तमुत्तरभवलेश्याः कथं सम्भवन्ति ? तथा देवानां नारकाणां च च्यवनानन्तरं नरतिर्यसूत्पन्नानां प्राग्भवलेश्या अन्तर्मुहूर्त कथं सम्भवन्ति ? तस्मादन्तर्मुहूर्तावशेष-आयुषि परभवलेश्यापरिणामो भवत्येव । यदुक्तमागमे
""तिरिनरआगामियभव-लेसाए अइगए सुरा निरया ।
पुव्वभवलेससेसे, अंतमुहुत्ते मरणमिति ॥ १ ॥ अत एव देवानां नारकाणां लेश्यायाः प्रागुत्तरभवान्तर्मुहूर्तद्वयसहितनिजायुःकालं यावत्स्थितिमत्त्वमुक्तम् ॥६० ॥
सम्प्रत्यध्ययनार्थमुपसञ्जिहीर्षुराहतम्हा एयासिं लेसाणं, अणुभागे वियाणिया । अप्पसत्था उ वज्जित्ता, पसत्थाओ अहिट्ठिए मुणि ॥६१ ॥त्तिबेमि ॥
मुनिस्तस्मात्कारणादप्रशस्ता लेश्या दुर्गतिकारणं, प्रशस्तलेश्याः सद्गतिहेतुः, सर्वासां प्रशस्ताप्रशस्तानां लेश्यानामनुभागान् रसान् विज्ञाय, अप्रशस्ता लेश्याः कृष्णनीलकापोताख्यास्तिस्रो वर्जयित्वा, प्रशस्तास्तेजःपद्मशुक्लाख्यास्तिस्रो लेश्या अधितिष्ठेत्, भावप्रतिपत्त्याश्रयेदिति सुधर्मास्वामी जम्बूस्वामिनं प्राह- हे जम्बू !अहं श्रीवीरवाक्यादिति ब्रवीमि ॥६१॥
इति लेश्याध्ययनं सम्पूर्णम् ॥ ३४ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां लेश्याख्यं चतुस्त्रिंशमध्ययनमर्थतः सम्पूर्णम् ॥३४॥
१ तिर्यक्नरा आगामिकभवलेश्यया अतिगते सुरा नारकाश्च । पूर्वभवलेश्याशेषे अन्तर्महर्ते मरणमेन्ति ।।१॥