________________
३४, लेश्याख्यमध्ययनम् ]
[ २११
अन्तर्मुहूर्तमद्धा कालो यस्या सान्तर्मुहूर्ताद्धा । जघन्याप्यन्तर्मुहूर्तकालं स्थितिः । उत्कृष्टाप्यन्तमुहूर्तकालमेव स्थितिरस्ति । किं कृत्वा ? केवलां शुक्लां लेश्यां वर्जयित्वा । तत्र शुक्लेश्याया अभावो वर्तते, अन्याः कृष्णाद्याः क्वचित्क्वचित्काचित्काचिल्लेश्या सम्भवतीति भावः । तत्र पृथिव्यप्वनस्पतीनां कृष्णादिलेश्याचतुष्टयं, तेजोवायुविकलसंमूर्छिमतिर्यग्मनुष्यनारकाणां प्रथमलेश्यात्रयं भवतीत्यर्थः ॥ ४५ ॥
मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुव्वकोडीओ ।
नवहिं वरिसेहिं ऊणा, नायव्वा सुक्कलेसाए ॥ ४६ ॥
शुक्ललेश्याया जघन्या स्थितिर्मुहूर्ताद्धेत्यन्तर्मुहूर्तकालं स्थितिर्ज्ञातव्या । तथा पुनः शुक्लेश्याया उत्कृष्ट स्थितिस्तु पूर्वकोटी नववर्षैर्म्युना ज्ञातव्या । इह यद्यपि कश्चिदष्टवार्षिकोऽपि पूर्वकोट्यायुर्व्रतपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य नववर्षपर्यायादर्वाक् शुक्ललेश्या सम्भवति, अतो नववर्षोना पूर्वकोटिरुक्ता ॥ ४६ ॥
एसा तिरियनराणं, लेसाण ठिई उ वन्निया हो ।
ते परं वच्छामि, लेसाण ठिई उ देवाणं ॥ ४७ ॥
एषा स्थितिस्तिरश्चां नराणां च वर्णिता भवति । 'तेणेति' पञ्चमीस्थाने प्राकृतत्वातृतीया, ततः परं देवानां लेश्यानां स्थितिं वक्ष्यामि ॥ ४७ ॥
दसवाससहस्साई, किण्हाइ ठिई जहन्निया हो ।
पलियमसंखिज्जइमो, उक्कोसा होइ किण्हाए ॥ ४८ ॥
कृष्णाया:-कृष्णलेश्याया द्वादशवर्षसहस्राणि जघन्यिका स्थितिर्भवति । पुनः कृष्णलेश्यायाः पल्योपमासङ्ख्येयतमो भाग उत्कृष्टा स्थितिर्भवति । इयं च द्विविधा स्थितिर्भवनपतिव्यन्तराणामेतावदायुषामपेक्षयोक्तास्ति ॥ ४८ ॥
जा कहा ठिई खलु, उक्कोसा सा उ समयमब्भहिया । जहन्त्रेण नीलाए, पलियमसंखं च उक्कोसा ॥ ४९ ॥
या कृष्णायाः- कृष्णलेश्यायाः खलु इति निश्चयेनोत्कृष्टा स्थितिरुक्ता, सैव स्थितिः समयाभ्यधिका समयेनैकेनाभ्यधिका समयाभ्यधिका जघन्येन नीललेश्यायाः स्थितिर्ज्ञेया । च पुनर्नीलायाः पल्योपमासङ्ख्येयभाग उत्कृष्टा स्थितिर्भवति । परमयमेव विशेषः - अयं यः पल्योपमासङ्ख्येयो भागो वर्तते, स बृहत्तरो भागो ज्ञेयः ॥ ४९ ॥
लाई खलु उक्कोसा सा उ समयमब्भहिया । जहनेणं काऊ, पलियमसंखं च उक्कोसा ॥ ५० ॥