________________
[ उत्तराध्ययनसूत्रे - १
२१२]
खलु निश्चयेन या नीलाया उत्कृष्टा स्थितिरुक्ता, सा पुनः समयाभ्यधिका जघन्येन कापोतायाः कापोतलेश्यायाः स्थितिर्ज्ञेया । च पुनः कापोतलेश्यायाः पल्योपमासङ्ख्येयो भाग उत्कृष्ट स्थितिर्भवति । परमयमपि पल्योपमासङ्ख्येयो भागो बृहत्तमो ज्ञेयः । इत्यनेन भवनपतिव्यन्तराणामेव तावदायुषां लेश्यात्रयं दर्शितम् ॥ ५० ॥
इत्थं निकायत्रयस्याद्यलेश्यात्रयमुक्त्वा चतुर्निकायस्य भाविनीं तेजोलेश्यास्थितिमाहतेण परं वुच्छामि, तेउलेसा जहा सुरगणाणं । भुवणवइवाणमंतर - जोइसवेमाणियाणं च ॥ ५१ ॥
- भाग-२
ततः परं‘भुवणवइवाणमंतरजोइसवेमाणियाणं' इति भुवनपतिव्यन्तरज्योतिष्कवैमानिकानां सुरगणानां यथा येन प्रकारेण तेजोलेश्या जघन्योत्कृष्टस्थिति र्भवति, तथाऽहं वक्ष्यामि ॥ ५१ ॥
पलिओवमं जहन्ना, उक्कोसा सागरा उ दोन्निहिया । पलियमसंखिज्जेणं, होइ भागेण तेऊए ॥ ५२ ॥
तेजोलेश्याया जघन्या स्थितिः पल्योपमं भवति, उत्कृष्टा स्थितिस्तु द्वे सागरोपमे अधिके पल्योपमासङ्ख्येयेन भागेन भवति । इयं परमा स्थितिस्तेजोलेश्याया भवति । इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतया ज्ञेया । तत्र सौधर्मेशानदेवानां जघन्योत्कृष्टाभ्यामेतावदायुर्वर्तते । उपलक्षणाच्छेषनिकायानामपि तेजोलेश्यायाः स्थितिर्ज्ञेया ॥ ५२ ॥ दसवाससहस्साइं, तेऊए ठिई उ जहण्णिया हो ।
दोन्नुदही पलिओवम - असंखभागं च उक्कोसा ॥ ५३॥
तेजोलेश्यायाः स्थितिर्दशवर्षसहस्त्राणि जघन्या भवति । तथा पुनर्द्वे सागरोपमे पल्योपमासङ्ख्येयभागयुक्ते उत्कृष्टा स्थितिस्तेजोलेश्याया भवति । तत्र व्यन्तरभवनपतिदेवानाश्रित्य तेजोलेश्यायाः स्थितिर्दशवर्षसहस्त्राण्युक्ता, पुनर्द्वे सागरोपमे पल्योपमासङ्ख्येयभागयुक्ते इयं तु द्वितीयदेवलोकापेक्षया तेजोलेश्याया उत्कृष्टा स्थितिरुक्तेति तात्पर्यम् ॥५३॥ जाऊ ठिई खलु, उक्कोसा सा उ समयमब्भहिया । जहन्नेणं पम्हाए, दसमुहुत्ताहिया इं उक्कोसा ॥ ५४ ॥
या तेजोलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते, सा तु सैव स्थितिः समयाभ्यधिका पद्मलेश्यायाः स्थितिर्ज्ञेया । इयं तु पद्मलेश्याया जघन्या स्थितिस्तृतीयसनत्कुमारदेवलोकापेक्षया भवति । उत्कृष्टा तु पद्मलेश्याया दशसागरोपमाण्यन्तर्मुहूर्ताधिकानि स्थितिर्भवति । इयं च पद्मलेश्यायाः स्थितिः पञ्चमब्रह्मदेवलोकापेक्षया ज्ञेया ॥ ५४ ॥