________________
२१०]
[उत्तराध्ययनसूत्रे-भाग-२ दमवाससहस्साई - काऊए ठिई जहण्णिया होइ । तिण्णुदही पलिओवम - मसंखभागं च उक्कोसा ॥४१॥
कापोतायाः-कापोतलेश्याया दशवर्षसहस्राणि जघन्यिका स्थितिर्भवति । प्रथमायां पृथिव्यां रत्नप्रभायां प्रथमप्रस्तटेऽस्ति, तत्रस्थानां हि जघन्यतो दशवर्षसहस्रायुष्कत्वात् । उत्कृष्टा स्थितिस्तु कापोतलेश्यास्त्रीणि सागरोपमाणिपल्योपमासङ्ख्येयभागयुक्तानि । इयंतु स्थितिस्तृतीयपृथिव्या वालुकाप्रभाया उपरितनप्रस्तटनारकाणामेतावती स्थितिरस्तीति॥४१॥
तिन्नुदही पलिओवम - असंखभागंजहन्नेण नीलठिई।
दसउदही पलिओवम - मसंखभागं च उक्कोसा ॥४२॥ नीलाया जघन्या स्थितिस्त्रीणि सागरोपमाणि पल्योपमासङ्ख्येयभागयुक्तानि ।इयती जघन्या स्थितिस्तृतीयाया वालुकाप्रभायाः पृथिव्या अपेक्षया ज्ञेया । पुनर्नीललेश्यायाश्च दशसागरोपमाणि पल्योपमासङ्ख्येयभागयुक्तान्युत्कृष्टा स्थितिज्ञैया । इयमपि पञ्चम्या धूमप्रभाया पृथिव्या उपरितनप्रस्तटापेक्षया ज्ञेया ॥ ४२ ॥
दसउदही पलिओवम - संखभागं जहनिया होइ ।
तेत्तीससागराइं - उक्कोसा होइ किण्हाए ॥ ४३ ॥ कृष्णायाः कृष्णलेश्याया दशसागरोपमाणि पल्योपमासङ्ख्येयभागयुक्तानि जघन्यिका स्थितिर्भवति । इयं तु पञ्चम्या धूमप्रभाया नरकपृथिव्या अपेक्षया ज्ञेया । कृष्णायाः पुनरुत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि । इयमप्युत्कृष्टा स्थितिः कृष्णलेश्यायाः सप्तम्यास्तमस्तमःप्रभाया नरकपृथिव्या अपेक्षया ज्ञेया ॥४३॥
एसा नेरईयाणं लेसाण, ठिई उ वणिया होइ।
तेण परं वुच्छामि, तिरियमणुयाण देवाणं ॥ ४४ ॥ एषा नैरयिकाणां - नरकवासिनां जीवानां लेश्यानां जघन्योत्कृष्टभेदेन स्थितिवर्णिता भवति । तेण परं' इति ततः परं तिर्यग्मनुष्याणां - तिरश्चां तथा मनुष्याणां देवानां च स्थितिं वक्ष्यामि ॥४४॥
अंतोमुहुत्तमद्धा लेसाण, ठिई जहिं जहिं जाओ।
तिरियाण नराणं च, वज्जिता केवलं लेसं ॥ ४५ ॥ यस्मिन् यस्मिन् पृथ्वीकायादौ तिरश्चां यस्मिन् यस्मिन् स्थाने संमूच्छिमनराणां च यास्तु कृष्णाद्या लेश्या वर्तते, तासां लेश्यानां जघन्योत्कृष्टा च स्थितिरन्तर्मुहूर्ताद्धा ज्ञेया। १ अंतोमुत्तमद्धं-अन्यसंस्करणे ॥