________________
३४, लेश्याख्यमध्ययनम्]
[२०९ नीललेश्याया जघन्या स्तोककालं चेत्स्थितिर्भवति तदान्तर्मुहूर्तमेव, उत्कृष्टा स्थितिश्च दशसागरोपमाणि पल्योपमासङ्ख्येयभागाधिकानि, इह पूर्वोत्तरभवान्तर्मुहूर्तद्वयप्रक्षेपेऽपि पल्योपमासङ्ख्येयभाग एव, यतोऽसङ्ख्येयभागानामसङ्ख्येयभेदत्वादिति भावः, एवमुत्तरत्रापि भावनीयम् । नीलायाः स्थितिर्भवतीति जघन्योत्कृष्टा च स्थितिर्ज्ञातव्या । इयं स्थितिश्च पञ्चमपृथिव्या धूमप्रभाया उपरितनप्रस्तटमाश्रित्योक्ता ॥ ३५ ॥
मुहुत्तद्धं तु जहन्ना, तिन्नुदहिपलियमसंखभागमब्भहिया ।
उक्कोसा होइ ठिई, नायव्वा काउलेसाए ॥ ३६ ॥ कापोतलेश्याया इयं स्थितिख़तव्या, जघन्या स्थितिस्तु कापोतलेश्यामा अन्तर्मुहूर्तं भवति, तथा पुनः कापोतलेश्यायास्त्रीणि सागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्युत्कृष्टा स्थितिर्भवतीति ज्ञातव्या । इयं स्थितिस्तु तृतीयनरकपृथिव्या वालुकाया अपेक्षयोक्तास्ति ॥३६॥
मुहुत्तद्धं तु जहन्ना, दोउदहिपलियमसंखभागमब्भहिया ।
उक्कोसा होइ ठिई, नायव्वा तेउलेसाए ॥ ३७ ॥ तेजोलेश्यायाश्चेयं स्थितिख़तव्या, जघन्या त्वन्तर्मुहूर्तम्, उत्कृष्टा च तेजोलेश्याया द्वावुदधी-द्वे सागरोपमे पल्योपमासङ्ख्येयभागाधिके परमा स्थितिर्जातव्या । इयं त्वीशानदेवलोकापेक्षया प्रोक्तास्ति ॥ ३७॥
मुहुत्तद्धं तु जहन्ना, दस उदही होति मुहुत्तमब्भहिया ।
उक्कोसा होइ ठिई, नायव्वा पम्हलेसाए ॥ ३८ ॥ पद्मलेश्याया इयं स्थितिर्ज्ञातव्या । जघन्या त्वन्तर्मुहूर्तमेव स्थितिर्भवति, उत्कृष्टा तु दशसागरोपमाण्यन्तर्मुहूर्ताधिकानि परमा स्थितिरेतावती पद्मलेश्याया भवति । इयं ब्रह्मदेवलोकापेक्षयोक्तास्ति ॥ ३८ ॥
मुहत्तद्धंतु जहन्ना, तित्तीसंसागरा मुहुत्तहिया।
उक्कोसा होइ ठिई, नायव्वा सुक्कलेसाए ॥ ३९ ॥ शुक्ललेश्याया इयं स्थितिख़तव्या-जघन्या स्थितिरन्तर्मुहूर्तम्, शुक्ललेश्यायास्त्रयस्त्रिंशत्सागरोपमाणि मुहूर्ताधिकान्युत्कृष्टा स्थितिर्भवति ॥ ३९ ॥
एसा खलु लेसाणं, ओहेणं ठिई उ वन्निया होड़।
चउसुवि गईसु एत्तो, लेसाण ठिई उ वोच्छामि ॥४०॥ एषा लेश्यानां षण्णामप्योघेन-सामान्यप्रकारेण गतिविवक्षां विना स्थितिर्वर्णिता भवति । इतश्चतसृषु गतिषु लेश्यानां सर्वासां स्थितिं वक्ष्यामि ॥ ४० ॥