________________
२०८]
[ उत्तराध्ययनसूत्रे - भाग - २
एकस्मिन् मार्गे षट्पुरुषाश्चेलुः, तैश्च क्षुधातुरैर्मार्गे चैकः फलितो जम्बूवृक्षो दृष्टः । तदैकेन कृष्णलेश्यावता प्रोक्तमेनं वृक्षं मूलाच्छित्वैनं प्रपात्यास्य फलान्यद्मः १ । तदा द्वितीयेन नीललेश्यावता चोक्तं किमर्थं मूलाच्छिद्यते ? एका महत्तमा शाखा छेदनीया, तस्याः फलान्यद्मस्तृप्तिं च कुर्मः २ । तत् श्रुत्वा तृतीयः कापोतलेश्यावान् प्राह- किमर्थं भो अस्य वृक्षस्य महाशाखा छिद्यते ? एकायाः प्रतिशाखाया अपि फलैः सर्वेषां तृप्तिः स्यात्, तस्मादेका लघ्वी प्रतिशाखैव छेदनीया ३ । ततश्चतुर्थस्तेजोलेश्यावानवादीत् किमर्थं प्रति-शाखायाच्छेदः ? बहवो गुच्छाः सन्ति, तेन गुच्छा एव ग्राह्याः, तैरेव तृप्तिर्भविष्यति ४ । ततः पञ्चमेन पद्मलेश्यावता चैवमुचे- किमर्थं भो गुच्छाः पात्यन्ते ? गुच्छेषु तु कच्चान्यपि फलानि भवन्ति, तस्मात्पक्वान्येव फलानि गृहीत्वा गृहीत्वाऽद्मः ५ । ततः षष्ठः शुक्ललेश्या - वान् पुमानाह- किमर्थं भो वृक्षात्फलानि पात्यन्ते ? बहून्येवाध एव पतितानि सन्ति तैरेव क्षुधाया उपशमो भावीति । एवं लेश्योदाहरणं ज्ञेयम् ॥ ३२ ॥ अथ लेश्यानां स्थानान्याह
असंखिज्जाणोसप्पिणीण, उसप्पिणीण जे समया । संखाईया लोगा, लेसाण हवंति ठाणाइं ॥ ३३ ॥
लेश्यानां सर्वासां तावन्ति स्थानानि भवन्ति, स्थानानि प्रकर्षाप्रकर्षकृतानि, अशुभानां लेश्यानां सङ्क्लेशरूपाणि, शुभानां लेश्यानां विशुद्धरूपाणि भाजनानीत्यर्थः । लेश्यानां कियन्ति स्थानानि भवन्ति ? यथाऽसङ्ख्येया उत्सर्पिण्यो वर्धमान वर्धमानभावरूपाः, तथा पुनरसङ्ख्येया अवसर्पिण्यो हीयमानभावरूपाः, तासामुत्सर्पिण्यवसर्पिणीनां यावन्तः समया भवन्ति, पुनर्यावन्तोऽसङ्ख्येया लोकाकाशप्रदेशा भवन्ति तावन्ति लेश्यानां स्थानान्यारुहन्त्यारुहन्ति, पतन्ति पतन्ति च । शुभान्यशुभानि निर्मलानि कलुषाणि च स्थानानि भवन्तीत्यर्थः ॥ ३३ ॥
अथ लेश्यानां स्थितिमाह
मुहुत्तद्धं तु जहन्ना, तित्तीसं सागरा मुहुत्तहिया ।
उक्कोसा होइ ठिई, नायव्वा किण्हलेसाए ॥ ३४ ॥
कृष्णलेश्याया इति स्थितिर्ज्ञातव्या - जघन्या मुहूर्त्तार्थं, कैश्चिदशैर्न्यूनं घटिकाद्वयमन्तर्मुहूर्तमेव कृष्णलेश्यायाः स्थितिर्भवति । तथोत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि मुहर्ताधिकानि । अथ सम्प्रदायान्मुहूर्तार्धशब्देनान्तर्मुहूर्त गृह्यते । अतः कारणात् त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्ताधिकानि परमा स्थितिः कृष्णलेश्याया भवति ॥ ३४ ॥
मुहुत्तद्धं तु जहन्ना, दसउदहिपलियमसंखभागमज्झहिया । उक्कोसा होइ ठिई, नायव्वा नीललेसाए ॥ ३५ ॥