________________
३४, लेश्याख्यमध्ययनम्]
[२०७ एतद्योगसमायुक्तः प्राणी तेजोलेश्यां परिणमेत् । कीदृशः प्राणी ? नीचैर्वृत्तिः कायवाङ्मनोभिरनुत्सेको नम्रतायुक्त इत्यर्थः । पुनर्यः प्राण्यचपलो भवति, पुनरमायी मायारहितः, पुनर्योऽकुतूहल: कुतूहलरहितः, पुनर्यो विनीतविनयः कृतगुर्वादियोग्यव्यवहारः, पुनर्यो दान्त इन्द्रियदमनपरायणः, पुनर्योगवान् सिद्धान्तपाठव्यापारवान् । पुनर्य उपधानवहननिरतः, पुनर्यः प्रियधर्मा, पुनर्यो दृढधर्मा, पुनर्योऽवद्यभीरुः- पापभीरुको भवति । पुनर्यो हितैषकः सर्वजीवेषु हितान्वेषी, अथवा हितं मोक्षमिच्छतीति हितैषकः, एतादृशस्तेजोलेश्यावान् भवति ॥ २६ ॥ अथ पालेश्यालक्षणमाह
पयणुक्कोहमाणे य, माया लोभे य पयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥ तहा पयणुवाई य, उवसंते जिइंदिए ।
एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥ ३० ॥ ___ एतद्योगसमायुक्तः प्राणी पद्मलेश्यां तु परिणमेत् । कीदृशः ? प्रकर्षेण तनू क्रोधमानौ यस्य स प्रतनुक्रोधमानः, पुनर्यस्य मायालोभौ च प्रतनुकौ भवतः । पुनर्यः प्रशान्तचित्तो भवति । पुनर्यो दान्तात्मा, पुनर्योगवांस्तथोपधानवान् भवति ॥ २९ ॥ तथा प्रतनुवादीस्वल्पभाषी, पुनरुपशान्तः कषायाभावेन शीतीभूतः, पुनर्यो जितेन्द्रियः, एतैर्योगैः समायुक्त एतद्योगसमायुक्तः पद्मलेश्यावान् भवतीत्यर्थः ॥ ३०॥ अथ शुक्ललेश्यालक्षणमाह
अट्टरुद्दाणि वज्जित्ता, धम्मसुक्काणि झायए। पसंतचित्ते दंतप्पा, समीए गुत्ते य गुत्तिसु॥३१॥ सरागे वीयरागे वा, उवसंते जिइंदिए ।
एयजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२ ॥ अनयोरर्थ:-एतद्योगसमायुक्तः प्राणी शुक्ललेश्यां परिणमेत् ।एतादृशः कीदृशः? य आर्त्तध्यानरौद्रध्याने वर्जयित्वा धर्मशुक्लौ - धर्मध्यानशुक्लध्याने ध्यायेत् । पुनर्यः प्रशान्तचित्तो दान्तात्मा च भवेत् । पुनः समितः पञ्चसमितियुक्तस्तिसृषु गुप्तिषु गुप्तो भवेत् ॥३१॥ स पुनः सरागोऽक्षीणानुपशान्तकषायो, वीतरागस्ततोऽन्यः (क्षीणोपशान्तकषाय), उपशान्तो जितेन्द्रियः, एतैर्लक्षणैर्लक्षितः शुक्ललेश्यां भजते इत्यर्थः ॥३२॥
इह हि प्रशस्तलेश्यानां तेजःपद्मशुक्लानां विशेषणे पुनरुक्तिदूषणं न ज्ञेयम् । तासां लेश्यानां हि तेजःपद्मशुक्ला-नामुत्तरोत्तरविशुद्ध्या शुभा, शुभतराः शुभतमाः परिणामा भावनीयाः । लेश्यानां लक्षणेषु दृष्टान्तो जम्बूवृक्षं निरीक्ष्य षट्पुरुषाणां परिणामविचारणेन भावनीयः । तथाहि