________________
२०६]
[उत्तराध्ययनसूत्रे-भाग-२ एतद्योगसमायुक्तः प्राणी नीललेश्यां प्रति परिणमेत्, नीललेश्यां भजेत् । ते के योगाः? ईर्ष्या-परगुणासहम्, अमर्षो महाकदाग्रहः, अतपस्तपसामभावः, ईर्ष्या च अमर्षश्च अतपश्चेामर्षातपः, तथा पुनरविद्या कुशास्त्ररूपा, पुनर्माया कापट्यं, अहीका निर्लज्जता, गृद्धिर्विषयलाम्पट्यम्, प्रद्वेषः प्रकृष्टद्वेषभावः, एते सर्वे योगा दोषरूपा यस्मिस्तिष्ठन्ति, गुणगुणिनोरभेदात्, स प्राणी नीललेश्यापरिणामवान् भवति । पुनः कीदृशः ? शठोमिथ्याभाषी, पुनः कीदृशः सः ? प्रमत्तोऽष्टमदयुक्तः, पुनर्यो रसलोलुपः ॥ २३ ॥ पुनर्यः प्राणी सातगवेषक इन्द्रियसुखाभिलाषी, कथं मम सुखं स्यादिति बुद्धिमान् । पुनर्य आरम्भात्प्राणिसंमर्दादविरत आरम्भाऽविरतः, पुनर्यः क्षुदो नीचः, साहसिकः एतादृशः प्राणी नीललेश्यावानित्यर्थः ॥ २४ ॥
अथ कापोतलेश्यालक्षणमाह
वंके वंकसमायारे, नियडिल्ले अणुज्जुओ । पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥ २५ ॥ उप्फालगदुट्ठवाई य, तेणे यावि य मच्छरी ।
एयजोगसमाउत्तो, काऊलेसं तु परिणमे ॥ २६ ॥ एतद्योगसमायुक्तः प्राणी कापोतलेश्यां प्रति परिणमेत् प्राप्नुयादित्यर्थः । कीदृशः? यो वङ्को वचसा वक्रः, पुनः कीदृशः ? वङ्कसमाचार:, वक्रः समाचारो यस्य स वक्रसमाचारो वक्रक्रियाकारी, पुनर्यः 'नियडिल्ले' इति निकृतिमान् निकृतिः शाठ्यं तद्विद्यते यस्येति निकृतिमान्, पुनर्योऽनृजुकोऽसरलः, कथञ्चित्सरलं कर्तुमशक्त इत्यर्थः । पुनर्यः 'पलिउंचग' इति प्रतिकुञ्चकः-स्वदोषप्रच्छादनपरः, पुनः कीदृशः? औपधिक उपधिना कपटेन चरतीत्यौपधिकः, पुनर्यो मिथ्यादृष्टिविपरितश्रद्धावान्, पुनर्योऽनार्यः सम्यग्लक्षणरहितः ॥२५ ॥ पुनर्य उत्फालकदुष्टवादी, उत्फालयति विदारयति पदं यदुत्कालकं दुःखोत्पादकं दुष्टं वदते इत्येवंशील उत्फालकदुष्टवादी । पुनर्यः स्तेनश्चापि भवति - चौरोऽपि भवति, पुनर्यो मत्सरी, अन्यस्य सम्पदं दृष्ट्वाऽसहनः, एतद्योगसमायुक्त एतादृशः कापोतलेश्यावान् ज्ञेयः ॥२६॥ अथ तेजोलेश्यालक्षणमाह
नीयावित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७ ॥ पियधम्मे दढधम्मे, वज्जभीरू हिएसए । एयजोगसमाऊत्ते, तेऊलेसं तु परिणमे ॥ २८ ॥