________________
३४, लेश्याख्यमध्ययनम् ]
[ २०५
कगुणनया सप्तविंशतिविधत्वं भवति, एवं पुनः पुनर्गुणनयैकाशीतिविधत्वं भवति, पश्चात्पुनरेवं त्रिचत्वारिंशदधिकद्विशतविधत्वं भावनीयम्, उपलक्षणं चेदम्, तरतमयोगविचारणया सङ्ख्यानियमो नास्ति । तथा च प्रज्ञापनासूत्रे - 'किण्हलेसाणं भंते कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा, नवविहं वा, सत्तावीसइविहं वा, इक्कासीइविहं वा, `तेयालब्भहिय दुसयविहं वा बहुं वा परिणामं परिणमइ, जाव सुक्कलेसाइति ॥ २० ॥ अथ तावत्कृष्णलेश्यापरिणाममाह
पंचासवप्पवत्तो तीहिं, अगुत्तो छसु अविरओ य । तिव्वारंभपरिणओ, खुद्दो साहस्सिओ नरो ॥ २१ ॥
निद्धंसपरिणामो, निस्संसो अजिइंदिओ ।
एयजोगसमाउत्तो, किण्हलेसं तु परिणमे ॥ २२ ॥ युग्मम् ॥
एतद्योगसमायुक्तो नरः- प्राणी कृष्णां लेश्यां प्रति परिणमेत्, कृष्णलेश्यां भजेदित्यर्थः, अत्र नरशब्देन केवलं पुरुष एव न गृह्यते, स्त्र्यादिष्वपि कृष्णलेश्यायाः सम्भवात् । सूत्रे उच्यमाना योगा एतद्योगास्तैः समायुक्तः सम्यग्प्रवर्तित एतद्योगसमायुक्तः । ते के योगाः ? इत्याह-पञ्च च आश्रवाश्च पञ्चाश्रवाः प्राणातिपातादय:, तेषु प्रवृत्तः सन्, पुनः कीदृशः ? तिसृभिरगुप्तो मनोगुप्तिवाग्गुप्तिकायगुप्तिरहितः । पुनर्यः षट्सु पृथ्व्यादिकायेष्वविरतः षट्कायोपमर्दयुक्त इत्यर्थः । पुनस्तीव्रा उत्कटा आरम्भाः सावद्यव्यापारास्तेषु परिणतस्तद्रूपतां प्राप्तस्तीव्रारम्भपरिणतः । क्षुद्रो हि सर्वेष्वप्यहितवाञ्छकः । पुनः साहसिकः सहसा अविचार्य प्रवर्तते इति साहसिकः, चौर्यपरदारासेवाकारीत्यर्थः ॥ २१ ॥ पुनः कीदृश: ? निध्वंसपरिणामो नितरां ध्वंसो निध्वंसोऽत्यन्तलोकद्वयविरुद्धचिन्ताविकलः परिणामो यस्य स निध्वंसपरिणामः, पुनर्यो नृशंसो भवति, निस्त्रिंशो जीवान् हिंसन् यो मनागपि शङ्कां न करोति स निशि इत्युच्यते । पुनः कीदृश: ? अजितेन्द्रियो -मुत्कलेन्द्रियः, एतादृशो यो भवति, स कृष्णलेश्यां प्राप्नोतीति भावः ॥ २२ ॥
इस्साअमरिसअतवो, अविज्जा माया अहीरिया । गिद्धी पओसो य सढे, पमत्ते रसलोलुए ॥ २३ ॥ सायगवेसेयारंभाऽविरओ, खुद्दो साहस्सिओ नरो । एय जोगसमाउत्तो, नीललेसं तु परिणमे ॥ २४ ॥
१ कृष्णलेश्यानां भगवन् ! कतिविधं परिणामं परिणमति ? गौतम ! त्रिविधं वा, नवविधं वा, सप्तविंशतिविधं वा, एकाशीतिविधं वा, त्रिचत्वारिंशदधिकद्विशतविधं वा, बहुवा, परिणामं परिणमति यावत् शुक्ललेश्यानामिति ।
२ बेतेयालसतविहं - महावीर जैन विद्यालय संस्करणे ॥