________________
२०२]
[ उत्तराध्ययनसूत्रे-भाग-२ - पद्मलेश्या वर्णत ईदृशी भवति । ईदृशी कीदृशी? हरितालभेदसङ्काशा, हरितालस्य नटमण्डनस्य भेदाः खण्डा हरितालभेदास्तैः सङ्काशा तत्सदृशी, पुनर्हरिदाभेदसत्प्रभा, पुनः शणासनकुसुमनिभा,शणंच असनश्च शणासनौ, तयोः कुसुमं, तेन सन्निभा शणासनकुसुमसन्निभा, शणं धान्यविशेषम्, असनो बीयकाख्यो वृक्षस्तत्पुष्पसदृशी ॥८॥ अथ शुक्ललेश्यावर्णमाह
संखंककुंदसंकासा, खीरपूरसमप्पभा ।
रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥ शुक्ललेश्या वर्णत ईदृशी भवति । ईदृशी कीदृशी ? शङ्खच अङ्कश्च कुन्दं च शङ्खाङ्ककुन्दानि, तैः सङ्काशा शङ्खाङ्ककुन्दसङ्काशा । शङ्खः प्रसिद्धः, अङ्कः शुक्लमणिविशेषः, कुन्दं कुन्दवृक्षपुष्पं, एतैः सदृशी । पुनः क्षीरपूरसमप्रभा-दुग्धपूरसदृशवर्णा । पुना रजतहाराभ्यां सङ्काशा, रजतं जातीयरूप्यं, हारो मुक्ताहारस्ताभ्यां सदृशीत्यर्थः ॥९॥ अथ षण्णां लेश्यानां रसमाह
जह कडुयतुंबगरसो, निंबरसो कडुयरोहिणिरसो वा ।
एत्तोवि अणंतगुणो, रसो उकिण्हाए नायव्वो ॥१०॥ कृष्णाया:-कृष्णलेश्याया ईदृशो रसो ज्ञातव्यः । ईदृशः कीदृशः ? यथा यादृशः कटुकतुम्बकरसस्तथा निम्बस्य रसस्तथा कटुकरोहिणीरसः, कटुका चासौ रोहिणी च कटुकरोहिणी, तस्या रसः कटुकरोहिणीरसः, रोहिणी वनस्पतिविशेषः, एतेभ्योऽप्यनन्तगुणोऽनन्तसङ्ख्यराशिना गुणितो रसः कृष्णलेश्याया भवतीत्यर्थः ॥१०॥ अथ नीललेश्याया रसमाह
जह तिक्कडुयस्स रसो, तिक्खो जह हथिपिप्पलीए वा ।
एत्तो वि अणंतगुणो, रसो उ नीलाए नायव्वो ॥ ११ ॥ नीलाया - नीललेश्याया ईदृशो रसो ज्ञातव्यः । यथा यादृशस्त्रिकटुकस्य त्रयाणां कटूनां समाहारस्त्रिकटु, त्रिकट्वेव त्रिकटुकं, सुण्ठीमरिचपिप्पलात्मकं, तस्य रसो यादृक् तीक्ष्णो भवति । पुनर्यथा हस्तिपिप्पल्या-गजपिप्पल्या वा रसो यादृशो भवति, इत्तोऽप्येभ्योऽपि नीलाया अनन्तगुणो रसस्तीक्ष्णो भवति ॥ ११ ॥
जह तरुणअंबयरसो, तुंवरकविट्ठस्स वाविजारिसओ। इत्तोवि अणंतगुणो, रसो उ काऊए नायव्वो ॥ १२ ॥
कापोतलेश्याया रस ईदृशो ज्ञातव्यः । ईदृशः कीदृशः ? यादृशस्तरुणाम्रकरसो भवति, तरुणमपरिपक्वं यदाम्रकमाम्रफलं तरुणाम्रकं, तस्य रसस्तरुणाम्रकरसः, तथा