________________
३४, लेश्याख्यमंध्ययनम्]
[२०३ पुनस्तुम्बरकपित्थस्य रसो यादृशो भवति, तुम्बरं-कच्चं कपित्थं तुम्बरकपित्थं, तस्य रसो यादृग्भवति, एभ्योऽप्यनन्तगुणो रसः कापोतलेश्याया ज्ञातव्यः ॥ १२ ॥
जह परिणयंबगरसो, पक्ककविट्ठस्स वावि जारिसओ ।
इत्तोवि अणंतगुणो, रसो य तेऊए नायव्वो ॥ १३ ॥ तेजोलेश्याया ईदृशो रसो भवति । ईदृशः कीदृशः? यादृशः परिणताम्रकरसो भवति, पक्वाम्रफलस्य रसो भवति । पुनर्यादृशः पक्वकपित्थस्यापि रसो भवति, 'इत्तो'एभ्योऽप्यनन्तगुणो रसस्तेजोलेश्याया ज्ञातव्यः, इत्यनेन किञ्चिदाम्लः किञ्चिन्मधुरश्चेति हार्दम् ॥१३॥
वरवारुणीयरसो विविहाण, व आसवाण जारिसओ।
महुमेरगस्स य रसो, इत्तो पम्हाए परएणं ॥१४॥ पद्माया:-पद्मलेश्याया रस ईदृशो ज्ञातव्यः । ईदृशः कीदृशो ? यादृशः वरवारुण्या:प्रधानमदिराया रसो भवति, पुनर्विविधानामासवानां कुसुमोत्पन्नानां मद्यानां यादृशो रसो भवति, तथा पुनर्मधुमैरेयकस्य रसो यादृशो भवति, मधु मद्यविशेषं, मैरेयं सरकाभिधानं, मधु च मैरेयं च मधुमैरेयं, तस्य मधुमैरेयस्य रसो यादृग्भवति, अत एभ्यो रसेभ्यः पद्माया:पद्मलेश्याया रसः परकेणानन्तगुणाधिकत्वेन भवति । अयं य रसः किञ्चिदाम्लकषायो मधुरश्चेति भाव्यम् ॥१४॥
खज्जूरमुद्दियरसो, खीररसो खंडसक्कररसो वा ।
इत्तोवि अणंतगुणो, रसो उ सुक्काए नायव्वो ॥१५॥ शुक्लायाः-शुक्ललेश्याया ईदृशो रसो भवति । ईदृशः कीदृशः ? यादृशः खजूरमृद्वीकयो रसः, खजूरं पिण्डखजूरं, मृद्वीका दाक्षा, तयोर्यादृग् रसः स्यात्, तथा पुनर्यादृक् क्षीरस्य - दुग्धस्य रसो भवति, तथा खण्डशर्करारसो यादृशो भवति, खण्डश्चक्षुरसविकारसंस्कारः, शर्करा च तत्प्रभवा, तयो रसो यादृशो भवति, अत एभ्यो रसेभ्योऽपि शुक्ललेश्याया अनन्तगुणो रसो ज्ञातव्यः । अत्यन्तमधुररसो ज्ञेय इत्यर्थः ॥ १५ ॥ अथ षण्णां लेश्यानां गन्धमाह
जहगोमडस्स गन्धो, सुणगमडस्स व जहा अहिमडस्स।
एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ -- अप्रशस्तानां लेश्यानां कृष्णनीलकापोतानां तिसृणामतोऽप्येभ्यो दुर्गन्धेभ्योऽप्यनन्तगुणो दुर्गन्धो भवति । एभ्यः केभ्यः ? यादृशो गोमृतकस्य-गोकलेवरस्य, तथा शुनो मृतकस्य वा, अथवा यथाऽहिमृतकस्य-सर्पकलेवरस्य गन्धो भवति, ततोऽनन्तगुणो दुर्गन्धो भवति, इह लेश्यानामप्रशस्तत्वं गन्धाद्यशुभत्वादितिभावः ॥ १६ ॥