________________
३४, लेश्याख्यमध्ययनम् ]
[ २०१
पूर्वं कृष्णलेश्या वर्णतो ज्ञेया - कीदृशी कृष्णलेश्या ? स्निग्धजीमूतसङ्काशा, प्राकृतत्वात् स्निग्धशब्दस्य परनिपातः, स्निग्धश्चासौ जीमूतश्च स्निग्धजीमूतस्तेन सङ्काशा स्निग्धजीमूतसङ्काशा, सजलघनसदृशा । पुनः कीदृशी ? गवलारिष्टकसन्निभा, गवलं चारिष्टकं च गवलारिष्टके, ताभ्यां सन्निभा गवलारिष्टकसन्निभा, गवलं - माहिषं शृङ्गम्, अरिष्टमरिष्टफलमरिष्टरत्नं वा, ताभ्यां सदृशी । पुनः कीदृशी ? खञ्जाञ्जननयननिभा, ख च अञ्जनं च नयनं च खञ्जाञ्जननयनानि तैर्निभा खञ्जाञ्जननयननिभा । खञ्जं शकटचक्रान्तर्गतलोहदण्डोपरिधृताभ्यक्तशणादिबन्धनं श्यामीभूतम्, अञ्जनं कज्जलं, नयनं नेत्रकनीनिका, तैर्निभा सदृशी ॥ ४ ॥
अथ नीललेश्याया वर्णमाह
नीलाशोक संकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ ॥ ५ ॥
तु पुनर्नीललेश्या वर्णत ईदृशी भवति, कीदृशी ? नीलश्चासावशोकश्च नीलाशोकस्तेन सङ्काशा - सदृशी नीलाशोकसङ्काशा । अशोकवृक्षो रक्तोऽपि भवति, तद्व्यवच्छेदार्थं नीलपदम् । पुनः कीदृशी ? चाषपिच्छसमप्रभा, पुनः कीदृशी ? स्निग्धवैडूर्यसङ्काशा जात्यनीलमणिसदृशी ॥ ५ ॥
अथ कापोतवर्णमाह
अयसीपुप्फसंकासा, कोइलच्छदसन्निभा ।
पारावयगीवनिभा, काउलेसा उ वन्नओ ॥ ६ ॥
कापोतलेश्या वर्णत ईदृशी भवति । ईदृशी कीदृशी ? अतसी-धान्यविशेषस्तस्य पुष्पमतसीपुष्पं, तेन सङ्काशाऽतसीपुष्पसङ्काशा, पुनः कीदृशी ? कोकिलच्छदसन्निभा कोकिलपक्षिपिच्छसदृशी, पुनः कीदृशी ? पारापतग्रीवानिभा ॥ ६ ॥
अथ तेजोलेश्यावर्णमाह
हिंगुल धाउसंकासा, तरुणाइच्चसंनिहा । सुयतुंडपईवनिभा, तेउलेसा उ वन्नओ ॥ ७ ॥
तेजोलेश्या वर्णत ईदृशी भवति । ईदृशी कीदृशी ? हिङ्गुलुकः प्रतीतः, स चासौ धातुश्च हिङ्गुलुकधातुस्तेन सङ्काशा हिङ्गुलुकधातुसङ्काशा । अथवा हिङ्गुलुकः प्रसिद्धः, धातुर्गैरिका, ताभ्यां सदृशी । पुनः कीदृशी ? तरुणादित्यसन्निभा - सदृशी । पुनः कीदृशी ? शुकतुण्डप्रदीपनिभा, शुकचञ्चप्रदीपार्चिस्सदृशी ॥ ७ ॥
अथ पद्मलेश्यावर्णमाह
हरियालभेयसंकासा, हलिद्दाभेयसप्पभा ।
सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ॥ ८ ॥