________________
॥३४ लेश्याख्यमध्ययनम् ॥ पूर्वस्मिन्नध्ययनेऽष्टकर्मप्रकृतय उक्ताः, ताश्च कर्मप्रकृतयः षड्भिर्लेश्याभिर्भवन्ति, ततो लेश्याध्ययनं चतुस्त्रिंशं कथ्यते
लेसज्झयणं पवक्खामि, आणुपुब्बि जहक्कम ।
छण्हंपि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ अथाहमित्यध्याहारः, अथ यथाक्रममानुपूर्व्याऽनुक्रमेण त्रिविधयाऽतिमलिनतममलिनतरमलिनादिभेदेनाहं लेश्याध्ययनं प्रवक्ष्यामि । लेश्या-अध्यवसायविशेषाः, लेश्याभिधायकमध्ययनं लेश्याध्ययनमहं कथयिष्यामि, 'मे' मम कथयतः षण्णामपि कर्मलेश्यानां कर्मस्थितिविधायकतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषांस्त्वं श्रृणु ॥१॥
नामाइ वण्णरसगंध-फासपरिणामलक्खणं।
ठाणं ठिईगई चाउं, लेसाणं तु सुणेह मे ॥ २ ॥ हे शिष्य ! लेश्यानामेकादशवचनानि 'मे' मम कथयतस्त्वं श्रृणु । तानि कानि वचनानि ? तावन्नामानि वक्ष्यामि, तथा वर्णरसगन्धस्पर्शपरिणामलक्षणं वक्ष्यामि, तथा स्थानं वक्ष्यामि, तथा स्थितिगती वक्ष्यामि, च पुनरायुर्वक्ष्यामि । वर्णश्च रसश्च गन्धश्च स्पर्शश्च परिणामश्च लक्षणं च, तेषां समाहारो वर्णरसगन्धस्पर्शपरिणामलक्षणम् । तत्रवर्णाः श्यामादयः, रसास्तीक्ष्णादयः, गन्धाः सुरभ्यादयः, स्पर्शाः खरादयः, परिणामा जघन्यादयः, लक्षणं पञ्चाश्रवासेवनादि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं नरकादिकां, यतो याऽवाप्यते आयुर्यावत्यायुष्यावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते ॥२॥ तदेवानुक्रमेणाह- .
किण्हा नीला य काऊय, तेउपउमा तहेव य।
सुक्कलेसा य छट्ठीओ, नामाइं तु जहक्कमं ॥ ३ ॥ एतानि लेश्यानां यथाक्रमं नामानि ज्ञेयानि । प्रथमा कृष्णा १, च पुनर्द्वितीया नीला २, तृतीया कापोतनाम्नी ३, चतुर्थी तेजोलेश्या ४, पञ्चमी पद्मलेश्या ५, च पादपूरणे, च पुनः षष्ठी शुक्ललेश्या ६ । एवं षण्णामपि नामानि ॥३॥
अथ वर्णानाहजीतनिद्धसंकासा, गवलरिट्रगसन्निभा । खंजंजणनयणनिभा, किण्हालेसा उ वण्णओ ॥४॥