________________
३३, कर्मप्रकृत्याख्यमध्ययनम् ]
[१९९ उदहिसरिसनामाणं, वीसई कोडिकोडिओ । नामगोयाण उक्कोसा, अट्ठमुहुत्ता जहन्निया ॥ २३ ॥
एतासां गाथानां व्याख्या। प्रथमद्वितीयगाथयोरर्थः-पूर्वमावरणयोर्द्वयोराद्ज्ञानावरणदर्शनावरणयोर्द्वयोः कर्मणोरुदधिसदृग्नाम्नाम्, उदधिः- समुद्रस्तेन सदृग्नाम येषां तान्युदधिसदृग्नामानि सागरोपमाणि, तेषामुदधिसदृग्नाम्नां सागरोपमाणां त्रिंशत्कोटाकोट्युत्कृष्टा स्थितिर्भवति । तथा जघन्यिका हीनान्तमुहूर्तं स्थितिः, तथैव वेदनीये इति वेदनीयस्य कर्मणः, तथान्तरायेऽन्तरायकर्मणोऽप्येषैव स्थितिः, उत्कृष्टा त्रिंशत्कोटाकोटीस्थितिः, जघन्यिका चान्तर्मुहूर्तस्थितिः । अत्र वेदनीयस्य जघन्या स्थितिरन्तर्मुहूर्तमाना सूत्रकृतोक्ता ।अन्ये तु द्वादशमुहूर्तमानामेव तां वेदनीयस्य स्थितिमिच्छन्ति, तदभिप्रायं न विद्मः ॥ १९-२० ॥ मोहनीयस्य सप्ततिकोटाकोटीसागरोपमानोत्कृष्टा स्थितिः, जघन्यिकान्तर्मुहूर्तं स्थितिः ॥ २१ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुःकर्मण उत्कृष्टेन स्थितियाख्याता, प्राकृतत्वाद्विभक्तिलोपः । जघन्यिकान्त-मुहूर्त स्थितिः ॥२२॥ नामगोत्रयोर्द्वयोः कर्मणोरुत्कृष्टा विंशतिः कोटाकोट्यः सागरोपमाणां स्थितिर्व्याख्याता, जघन्यिकान्तर्मुहूर्तिका, इयं तु मूलप्रकृतीनां स्थितिरस्ति । उत्तरप्रकृतीनां स्थितिविस्तरटीकातो ज्ञेया ॥ २३ ॥ अथ भावमाह
सिद्धाणऽणंतभागो, अणुभागा हवंति उ।
सव्वेसुवि पएसग्गं, सव्वजीवे सइच्छियं ॥ २४ ॥ सिद्धानामनन्तसङ्ख्याकानां सिद्धजीवानामनन्ततमोभागोऽनुभागाः कर्मरसविशेषा भवन्ति ।सिद्धानन्तभागोऽनन्तसङ्ख्य एव, इत्यनेनानुभागानामप्यानन्त्यमुक्तम्, सर्वेष्वप्यनुभागेषु प्रदेशबुद्ध्या विभज्यमाना अनुभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं, सव्वजीवे सऽइच्छियं' सर्वजीवेभ्यो ( भव्याभव्येभ्यः)ऽतिक्रान्तं, ततोऽपि तेषामनन्तगुणत्वं ॥२४॥ अथाध्ययनार्थमुपसंहरनाह
तम्हा एएसि कम्माणं, अणुभागे वियाणिया ।
एएसिं संवरे चेव, खवणे य जए बुहे ॥ २५ ॥त्तिबेमि ॥ तस्मादेतेषां कर्मणामनुभागान्-कर्मणां रसविशेषान् विज्ञाय तेषां कर्मणां संवरे अनुपागतानां निरोधे, च पुनः क्षपणे उपागतानां क्षयीकरणे बुधः-पण्डितो यतते-यत्न कुरुते । इति सुधर्मास्वामी जम्बूस्वामिनं प्राह-हे जम्बू ! अहं ब्रवीमि ॥ २५ ॥
इति कर्मप्रकृत्याख्यमध्ययनम् सम्पूर्णम् ॥ ३३ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां कर्मप्रकृत्याख्यं त्रयस्त्रिंशत्तममध्ययनम् सम्पूर्णम् ॥३३॥