________________
१९८]
[ उत्तराध्ययनसूत्रे-भाग-२ __ कर्म ज्ञानावरणीयादिकं सर्वजीवानामेकेन्द्रियादीनां, तु पादपूरणे सङ्ग्रहे सङ्ग्रहक्रियायां योग्यं स्यादिति शेषः । कीदृशं सदित्याह-'छद्दिसागयत्ति' षदिशागतं, षण्णां दिशां समाहारः षड्दिशं, तत्र गतं षड्दिशागतं, षड्दिस्थितमित्यर्थः । तत्र चतस्त्रः पूर्वाद्या दिशः, उर्ध्वाधोदिगद्वयं चेदं दिक्षट्कम् । अत्र षड्दिग्गतं कर्म द्वीन्द्रियादिजीवानेवाधिकृत्य सङ्ग्रहक्रियायां योग्यं स्यादिति नियमः । एकेन्द्रियाणां तु आगमे त्र्यादिदिक्स्थं कर्मग्रहणक्रियायां योग्यमप्युक्तमस्ति, अपरत्रागमे च तदाह-एगिदियाणं भंते तेयाकम्मपुग्गलाणं गहणं करेमाणे किं तिदिसिं करेई ? जाव छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सिय च्छद्दिसिं करेइ । बेंदियाणं भंते पुच्छा, गोयमा ! बेंदिया जाव पंचेंदिया नियमा छद्दिसिं करेइ' । ___ तच्च सङ्ग्रहीतं सत् केन सह ? कियत् ? कथं वा स्यादित्याह-'सव्वेसुत्ति' सर्वैरप्यात्मप्रदेशैः सर्वं ज्ञानावरणादि सर्वेण प्रकृतिस्थित्या-दिना प्रकारेण बद्धं अन्योन्यं सम्बन्धतया क्षीरोदकवदात्मप्रदेशैः श्लिष्टं, तदेव बद्धकं सङ्ग्रहे योग्यं भवति, न त्वन्यत् । आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येनादाय तान् पुद्गलानध्यवसायविशेषात् पृथग्ज्ञानावरणादिरूपत्वेन परिणमयति । यत्र ह्याकाशे जीवोऽवगाढस्तत्र ये आकाशप्रदेशा आत्मन्याश्रितास्तेषु ये कर्मपुद्गला रागादिस्नेहयोगत आत्मनि लगन्ति, ते एव कर्मपुद्गला जीवानां सङ्घहयोग्याः, न तु क्षेत्रान्तरावगाढाः कर्मपुद्गला जीवानां सङ्घहणार्हाः, भिन्नप्रदेशस्थानां ग्रहणयोग्याऽभावात् । 'सव्वेसु पएसेसु' इति प्राकृतत्वात्तृतीयाबहुवचनस्थाने सप्तमीबहुवचनम् । भिन्नप्रदेशस्थाः कर्मपुद्-गलाः कथं ग्रहणयोग्या न भवन्ति ? स्वावगाढाकाशप्रदेशस्थाः कर्मपुद्गलाः कथं ग्रहण-योग्या भवन्ति ? अत्र दृष्टान्तःयथाग्निः स्वप्रदेशस्थान् प्रायोग्यपुद्गलानात्मसात्करोति, एवं जीवोऽपि स्वप्रदेशस्थान् कर्मपुद्गलानात्मसात्करोति । किञ्चिद्विदिस्थितमपि कर्मात्मा गृह्णाति, परमल्पत्वान्न विवक्षितम् ॥१८॥ अथ कालमाह
उदहिसरिसनामाणं, तीसई कोडिकोडिओ। उक्कोसिया ठिई होइ, अंतोमुहुत्तं जहन्निया ॥१९॥ आवरणिज्जाण दुण्हंपि, वेयणिज्जे तहेव य । अंतराए य कम्ममि, ठिई एसा वियाहिया ॥ २० ॥ उदहिसरिसनामाणं, सत्तरि कोडिकोडिओ । मोहणिज्जस्स उक्कोसा, अंतोमुहुत्तं जहन्निया ॥२१॥ तित्तिससागरोवमा, उक्कोसेण वियाहिया ।
ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहन्निया ॥ २२ ॥ १ एकेन्द्रियाणां भगवन् ! तेजःकर्मपुद्गलानां ग्रहणं क्रियमाणे किं त्रिदिर्शि करोति ? यावत् षदिशं करोति ? गौतम ! स्यात् त्रिदिशं, स्यात् चतुर्दिशं, स्यात् पञ्चदिशं, स्यात् षदिशं च करोति । द्वीन्द्रियानां भगवन् पृष्टः, गौतम ! द्वीन्द्रियेभ्यो यावत् पञ्चेन्द्रियेभ्यो नियमा षदिशं करोति ॥