________________
३३, कर्मप्रकृत्याख्यमध्ययनम् ]
[१९७ दाने, लभ्यते इति लाभस्तस्मिन् लाभे, सकृद्भुज्यते पुष्पहारादिपदार्थ इति भोगस्तस्मिन् भोगे, उपेति पुनः पुनर्भुज्यते भुवनाङ्गनांशुकादीनीत्युपभोगस्तस्मिन्नुपभोगे, तथा विशेषेणेर्यते वेद्यतेऽनेनेति वीर्य, तस्मिन् वीर्ये, सर्वत्रान्तरायमिति सम्बन्धः । ततो विषयभेदात्पञ्चविधमन्तरायम् । तत्र यस्मिन् सति चतुरे ग्रहीतरि, देये वस्तुनि, तस्य फलं जानन्नपि दाने न प्रवर्तते तद्दानान्तरायं १ । यस्मिन विशिष्टे दातरि सति याचनानिपुणोऽपि याचको न लभते तल्लाभान्तरायम् २ । पुनर्विभवादौ सत्यपि भोक्तुं न शक्नोति तद्भोगान्तरायम् ३ । येनोपभोगयोग्ये वस्तुनि सत्युपभोक्तुं न शक्यते तदुपभोगान्तरायम् ४ । यद्वशाबलवान् नीरोगस्तरुणोऽपि तृणमपि भक्तुं न शक्नोति, तस्य पुरुषस्य वीर्यान्तरायं कर्म ज्ञेयम् ५ ॥१५॥ उक्तार्थस्य निगमनायोत्तरग्रन्थयोजनायाह
एयाओ मूलपयडीओ, उत्तराओ य आहिया ।
पएसग्गं खित्तकाले य, भावं वा अदुत्तरं सुण ॥१६॥ एता मूलप्रकृतयोऽष्टावाख्याताः, तु पुनरुत्तरा अवान्तरा ज्ञानावरणदर्शनावरणादीनां पञ्चनवाद्या अग्रे कर्मणां प्रकृतय आख्याताः । अथ प्रदेशाग्रं क्षेत्रकालौ च, वाशब्दः पुनरर्थे , पुनर्भावं, अतः प्रकृत्यभिधानादुत्तरमग्रे त्वं श्रृणु, अहं वदामीति शेषः । तत्र प्रदेशाग्रं किं ? उच्यते-प्रदेशानां परमाणूनामग्रं परिमाणं प्रदेशाग्रं, क्षेत्रमाकाशं, कालश्च बद्धस्य कर्मणो जीवप्रदेशाऽविचटनात्मकः स्थितिकालः, भावमनुभागादिककर्मपर्यायलक्षणं चतुर्विधं प्रकृति-स्थिति-प्रदेशाऽनुभागस्वरूपमहं वदामि, त्वं श्रृणु ॥ १६ ॥ अथ तावत्प्रदेशाग्रं वदति
सव्वेसिं चेव कम्माणं, पएसग्गमणंतयं ।
गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥ १७ ॥ सर्वेषां ज्ञानावरणीयादिकर्मणां प्रदेशाग्रं परमाणुपरिमाणं ग्रन्थिगसत्वातीतं वर्तते, ग्रन्थि-घनरागद्वेषपरिणतिरूपांगच्छन्तीति ग्रन्थिगाः, ग्रन्थिगाश्च ते सत्त्वाश्च ग्रन्थिगसत्त्वाः, तेभ्योऽतीतं तान्, वाऽतीतमतिक्रान्तं ग्रन्थिकसत्त्वातीतम् कोऽर्थः? रागद्वेषमयीं ग्रन्थि यावद्भेदनायागताः सन्तः, परं भेत्तुमशक्ताः पश्चादेव व्याघुटिताः, एतादृशा ये सत्त्वा अर्थादभव्या जीवास्तेभ्यः कर्मणांप्रदेशाग्रं परमाणूनां परिमाणमनन्तगुणाधिकं,अभव्येभ्योऽधिकमित्यर्थः । पुनः सर्वेषां कर्मणां प्रदेशाग्रं सिद्धजीवानामन्तराख्यातं, सिद्धेभ्योऽन्तर्मध्ये एवाख्यातं तीर्थकरैः कथितम् । कोऽर्थः ? सिद्धजीवेभ्यः कर्मपरमाणुपरिमाणमनन्तगुणेन हीनमित्यर्थः । कर्माण्वपेक्षया सिद्धाअनन्तगुणा इति भावः ।अत एव कर्मपरमाणूनामनन्तकं सिद्धानामन्तर्वति प्रकाशितम् । इदं सङ्ख्यानमेकसमयग्राह्यकर्मपरमाण्वपेक्षमुक्तं वर्तते ॥१७॥ प्रदेशाग्रमुक्त्वा कर्मणां क्षेत्रं वदन्ति
सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसुवि पएसेसु, सव्वं सव्वेण बद्धगं ॥ १८ ॥
.
१४