________________
८
]
[ उत्तराध्ययनसूत्रे-भाग-२ अहं किमवादिषं तदाह -
सइं च जइ मुचिज्जा, वेयणा 'विउलाउ मे ।
खंतो दंतो निरारंभो, पव्वइओ अणगारियं ॥३२॥ यदि सकृदप्येकवारमप्यहं वेदनाया विमुच्ये, तदाहं क्षान्तो भूत्वा, पुनर्दान्तो जितेन्द्रियो भूत्वा निरारम्भः सन्ननगारत्वं - साधुत्वं प्रव्रजामि - दीक्षां गृह्णामीति भावः । कथंभूताया वेदनायाः ? विपुलाया - विस्तीर्णायाः ॥३२॥
एवं चिंतइत्ताणं, पसुत्तो मि नराहिवा ।
परिवत्तंतिए राईए, वेयणा मे खयं गया ॥३३॥ एवं पूर्वोक्तं चिन्तनं चिन्तयित्वा हे नराधिप ! यावदहं सुप्तोऽस्मि, तावत्तस्यामेव रात्रौ प्रवर्तमानायामतिक्रामत्यां 'मे' मम वेदनाः क्षयं गताः, वेदना उपशान्ता इत्यर्थः ॥३३ ॥
तओ कल्ले पभायंमि, आपुच्छित्ताण बंधवे ।
खंतो दंतो निरारंभो, पव्वईओ अणगारियं ॥३४॥ ततो वेदनोपशान्तेरनन्तरं कल्ये इति नीरोगे जाते सति प्रभातसमये बान्धवान् स्वज्ञातीनापृच्छयाऽहमनगारत्वं - साधुत्वं प्रव्रजितः, साधुधर्ममङ्गीकृतवान् । कीदृशोऽहं ? क्षान्तः पुनर्दान्तः, पुनरहं निरारम्भः ॥ ३४ ॥
तओहं णाहो जाओ, अप्पणो य परस्स य ।
सव्वेर्सि चेव भूयाणं, तसाणं थावराण य ॥ ३५ ॥ हे राजन् ! ततो दीक्षानन्तरमात्मनश्च पुनः परस्य नाथो-योगक्षेमकरत्वेन स्वामी जातः । आत्मनो हि नाथः शुद्धप्ररूपणत्वात्, अपरस्य च हितचिन्तनात् । एव निश्चयेन सर्वेषां भूतानां त्रसानां च पुनः स्थावराणां नाथो जातः ॥ ३५ ॥ अथ यश्चात्मनो नाथः, स च सर्वेषां नाथः तदेव दृढयति
अप्पा नई वेयरणी, अप्पा मे कूडसामली ।
अप्पा कामदुधा धेणु, अप्पा मे नंदणं वणं ॥३६॥ हे राजन् ! दीक्षायां गृहीतायामहं नाथोऽभूवम् , पूर्वमनाथ आसम्।तत्कथं ? उच्यतेअयमात्मा जीवो वेतरणीनदी प्रवर्तते, पुनर्ममात्मैव कूटशाल्मलीवृक्षो नरकस्थो वर्तते पुनरयमात्मैव कामदुघाधेनुवर्तते,कामंदोग्धि पूरयतीति कामदुधा। जीवोयांशुभक्रियांकरोति सा शुभक्रिया सुखदेत्यर्थः । 'मे' ममात्मा नन्दनं वनम्, देवानां सुखदायकं वनमस्ति ॥३६ ॥ १ विउला इओ - अन्यसंस्करणे॥