________________
२०, महानिर्ग्रन्थीयमध्ययनम्] .
अप्पा कत्ता विकत्ता य, सुहाण य दुहाण य ।
अप्पा मित्तममित्तं च, दुप्पइट्ठिय सुप्पइट्ठिओ ॥३७॥ हे राजन्नात्मा जीवः स एव कर्ता, च पुनरात्मैव विकिरिता-विक्षेपकः । केषां ? तदाह-सुखानां च पुनर्दुःखानाम्, अर्थात् सुखासुखयोः कर्ता विकिरिता विनाशकश्चात्मैव । च पुनरात्मा मित्रमुपकारकृत् सुहृद्वर्तते । तथात्मैवाऽमित्रं शत्रुरहितकारी वर्तते । हे राजन्नयमात्मा दुष्टाचारे प्रस्थितः- प्रवर्तितो वैतरण्यादिनरकभूमिदर्शको वर्तते, अयमेवात्मा सुष्ठ आचारे प्रस्थितः प्रवर्तितः कामधेन्वादिनन्दनवनादिवद्धर्षदो वर्तते ॥ ३७ ॥
इमा हुअण्णावि अणाहया निवा, तामेगचित्तो निहुओ सुणेहिं । नियंठधम्मं लहियाण वी जहा, सीयंति एगे बहु कायरा नरा ॥३८॥
हे नृप ! हे राजन् ! 'हु' इति निश्चये, इयमनाथता, अन्याप्यनाथता वर्तते, तामनाथतामेकचित्तः पुनर्निभृतोऽन्यकार्येभ्यो निवृत्तः सन्नानिश्चितः सन् श्रृणु । यथा निर्ग्रन्थधर्म लब्ध्वाप्येके केचिज्जना बहुकातराः, बहु यथा स्यात्तथा हीनसत्वाः पुरुषाः सीदन्ति, साध्वाचारे शिथिला भवन्ति ॥ ३८ ॥
जो पव्वइत्ताण महव्वयाई, सम्मं च नो फासयई पमाया । अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिदइ बंधणं से ॥३९॥
हे राजन् ! यो मनुष्यः प्रव्रज्य - दीक्षां गृहीत्वा महाव्रतानि प्रमादात् सम्यविधिना न स्पृशति, नसेवते, से' इति स प्रमादवशवर्ती, प्रमादादनिग्रहात्मा विषयाऽनियन्त्रितात्मा, अत एव रसेषु मधुरादिषु गृद्धो बन्धनं-कर्मबन्धनं रागद्वेषलक्षणं संसारकारणं मूलतो-मूलान्न छिनत्ति, मूलतो नोत्पाटयति, सर्वथा रागद्वेषौ न निवारयतीत्यर्थः ॥३९॥
आउत्तया जस्स य नत्थि काई, इरियाए भासाए तहेसणाए । आयाणनिक्खेवदुगंछणाए, न धीरजायं अणुजाइ मग्गं ॥ ४० ॥
हे राजन् ! स साधुर्धीरयातं मागं नानुयाति, धीरैर्महापुरुषैस्तीर्थकरैर्गणधरैश्च यातंप्राप्तम्, अर्थान्मोक्षमार्गं न प्राप्नोति । स कः ? यस्य साधोरीर्यार्यां - गमनागमनसमितौ, तथा भाषायाम्, तथैषणायामाहारग्रहणसमितौ, पुनरादाननिक्षेपणसमितौ - वस्तूनां ग्रहणमोचनविधौ, तथा दुगंछणाए' इति उच्चारप्रश्रवण-श्लेष्म-जल्ल-सिङ्घाणादीनां परिष्ठापनसमितौ 'आयुक्तता काचिन्नास्ति ॥ ४० ॥
१सावधानता