________________
२०, महानिर्ग्रन्थीयमध्ययनम् ]
भयणीओ मे महाराय, सगा जिट्ठकनिट्ठगा ।
न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २७ ॥
हे महाराज ! 'मे' मम भगिन्योऽपि, स्वका एकमातृजाः ज्येष्ठाः कनिष्ठाश्च मां दुःखान्न विमोचयन्ति स्म । एषा ममाऽनाथता ज्ञेया ॥ २७ ॥
भारिया मे महाराज, अणुरत्ता अणुव्वया ।
अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचाई ॥ २८ ॥ अन्नं पाणं च न्हाणं च, गंधमल्लविलेवणं । मए नायमनायं वा, सा बाला नोवभुंजई ॥ २९ ॥
[ ७
खपि मे महाराय, पासाओ न विफिट्टई । नय दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ ३० ॥ तिसृभिर्गाथाभिः कुलकम् ॥
हे महाराज ! 'मे' मम भार्या -कामिन्यपि दुःखान्मां न मोचयति स्म । कथंभूता भार्या ? अनुरक्ता - अनुरागवती, पुनः कथंभूता ? अनुव्रता, पतिव्रता पतिमनुलक्ष्यीकृत्य व्रतं यस्याः सानुव्रता । एतादृशी भार्या 'मे' मम उरो हृदयमश्रुपूर्णाभ्यां लोचनाभ्यां सिञ्चति स्म ॥ २८ ॥ पुनः सा बाला मत्कामिनी अन्नमशनं मोदकादिकं भक्ष्यम्, पानं शर्करोदकादिकम्, पुनः स्नानं कुङ्कुमादिपानीयैः, गन्धैः सुरभितैलचोरैकगोशीर्षचन्दनप्रमुखैः, माल्यैरनेकसुरभिपुष्पदामभिर्विलेपनं-गात्रार्चनम्, मया ज्ञातं वा अज्ञातम्, स्वभावेनैवैतत्सर्वं भोगाङ्गं नोपभुङ्क्ते, नानुभवति । मम दुःखार्त्तया सर्वाण्यपि भोगाङ्गानि त्यक्तानि ॥ २९ ॥ पुनर्हे महाराज ! सा बाला मम पार्श्वान्नैकट्यान्न 'विफिट्टड़' इति न विफिट्टति, नापयातीत्यर्थः । परं दुःखान्मां न विमोचयति, एषा ममाऽनाथता ज्ञेया ॥ ३० ॥
तओ हं एवमाहंसु, दुक्खमा हु पुणो पुणो ।
वेणा अणुभवेडं जे, संसारंमि अनंतए ॥ ३१ ॥
ततोऽनन्तरं प्रतीकारेषु विफलेषु जातेष्वहमेवमादिषम् । एवमिति किं ? 'हु' इति निश्चयेन या वेदना अक्षिरोगप्रमुखा अनुभवितुं दुःक्षमाः, भोक्तुमसमर्थाः, ता वेदनाः संसारे पुनः पुनर्भुक्ता इति शेषः । वेद्यते दुःखमनयेति वेदना । ता वेदना दुःखेन क्षम्यन्ते सह्यन्ते इति दुःक्षमा दुःसहाः, कीदृशे संसारे ? अनन्तकेऽपारे ॥ ३१ ॥
१ सुगंधी द्रव्य. २ भ्रंश धातुनो प्राकृतमां फिट्ट आदेश थाय छे.