________________
[ उत्तराध्ययनसूत्रे-भाग-२ पुनः कीदृशा आचार्याः ? अधीता:- सम्यक् पठिताः । “अबीया' इति पाठे न विद्यतेऽन्यो द्वितीयो येभ्यस्तेऽद्वितीयाः, असाधारणाः । पुनः कीदृशास्ते ? शास्त्रकुशला:- शास्त्रेषु विचक्षणाः । पुनः कीदृशास्ते ? मन्त्रमूलविशारदाः, मन्त्राणि देवाधिष्ठितानि, मूलानि 'जटिकारूपाणि, तत्र विचक्षणाः, मन्त्रमूलिकानां गुणज्ञाः ॥ २२ ॥
ते मे तिगिच्छं कुव्वंति, चाउप्पायं जहा हियं ।
न य दुक्खा विमोयंति, एसा मज्ज अणाहया ॥२३॥ ते वैद्याचार्या 'मे' मम चैकित्स्य-रोगप्रतिक्रियां यथा हितं भवेत्तथा कुर्वन्ति । कीदृशं चैकित्स्यं ? चातुःपादम्, चत्वारः पदाः प्रकारा यस्य तच्चतुःपदम्, तस्य भावः चातुःपादम्, चातुर्विध्यमित्यर्थः । वैद्य १ औषध २ रोगि ३ प्रतिचारक ४ रूपम् । अथवा वमन १ विरेचन २ मईन ३ स्वेदन ४ रूपम् । अथवा अञ्जन १ बन्धन २ लेपन ३ मईनरूपम् ४, शास्त्रोक्तं गुरुपारम्पर्यागतं चक्रुरिति स्थाने प्राकृतत्वात्कुर्वन्तीत्युक्तम् । ते वैद्या मां दुःखान विमोचयन्ति स्म । प्राकृतत्वाद् भूतार्थे वर्तमानार्थप्रत्ययः । एषा ममानाथता वर्तते ॥२३॥
पिया मे सव्वसारंपि, दिज्जाहि मम कारणा ।
न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २४ ॥ हे राजन् ! मम पिता मम कारणेन सर्वमपि सारम्, गृहे यत्सारं सारं वस्तु, तत्सर्वमपि वैद्येभ्योऽदात् । तथापि वैद्या मां दुःखात्कष्टान्न विमोचयन्ति स्म । एषा ममाऽनाथता ज्ञेयेति शेषः ॥२४॥
माया वि मे महाराय, पुत्तसोयदुहट्ठिया ।
न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २५ ॥ हे महाराज ! 'मे' मम मातापि दुःखान्मां न विमोचयति स्म । कथंभूता माता ? पुत्रशोकदुःखस्थिता, पुत्रस्य यः शोकः पीडाप्रादुर्भावः साताऽभावः, स एव दुःखम्, तत्र स्थिता पुत्रशोकदुःखस्थिता । एषा ममाऽनाथता ज्ञेया ॥ २५ ॥
भायरा मे महाराय, सगा जिट्ठकणिट्ठगा ।
न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २६ ॥ हे महाराज ! 'मे' मम भ्रातरोऽपि, स्वका आत्मीया ज्येष्ठकनिष्ठका - वृद्धा लघवश्च न मां दुःखाद्विमोचयन्ति स्म । एषा ममाऽनाथता ज्ञेया ॥ २६ ॥ १ अबीआ-अन्यसंस्करणे ॥ २ जडी-बुट्टी।