________________
२०, महानिर्ग्रन्थीयमध्ययनम्]
कोसंबीणाम णयरी, पुराणपुरभेयणी ।
तत्थ आसी पिया मज्झं, पभूयधणसंचओ ॥१८॥ हे राजन् ! कौशाम्बीनाम्नी नगर्यासीत् । कीदृशी कौशाम्बी ? पुराणपुरभेदिनी, जीर्णनगरभेदिनी, यादृशानि जीर्णनगराणि भवन्ति, तेभ्योऽधिकशोभावती, कौशाम्बी हि जीर्णपुरी वर्तते । जीर्णपुरस्था हि लोकाः प्रायशश्चतुरा धनवन्तश्च बहुज्ञा विवेकवन्तश्च भवन्तीति हार्दम् । तत्र तस्यां कौशाम्ब्यां मम पिताऽऽसीत् । कीदृशो मम पिता ? प्रभूतधनसञ्चयः, नाम्नापि धनसञ्चयः, गुणेनापि बहुलधनसञ्चय इति वृद्धसम्प्रदायः ॥ १८ ॥
पढमे वए महाराय, अउला अत्थिवेयणा ।
अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ॥१९॥ हे महाराज ! प्रथमे वयसि-यौवने एकदाऽतुलोत्कृष्टाऽस्थिवेदनाऽस्थिपीडा 'अहोत्था' इत्यभूत् । अथवा 'अस्थिवेयणा' इति पाठे अक्षिवेदना - नेत्रपीडाऽभूत् । ततश्च हे पार्थिव ! हे राजन् ! सर्वगात्रेषु विपुलो दाघोऽभूत् ॥१९॥
सत्थं जहा परमतिक्खं, सरीरविवरंतरे ।
'पवीलिज्जइ अरी कुद्धे, एवं मे अस्थिवेयणा ॥२०॥ हे राजन् ! यथा कश्चिदरिः क्रुद्धः सन् शरीरविवरान्तरे नासाकर्णचक्षुःप्रमुखरन्ध्राणां मध्ये परमतीक्ष्णं शस्त्रं प्रपीडयेद्गाढमवगाहयेत्, एवं 'मे' ममास्थिवेदनाभूत् ॥ २० ॥
तियं मे अंतरिच्छं च, उत्तमंगं च पीडई ।
इंदासणिसमं घोरा, वेयणा परमदारुणा ॥ २१ ॥ हे राजन् ! सा परमदारुणा वेदना 'मे' मम त्रिकं कटिपृष्ठविभागम्, च पुनरन्तरिच्छाम्, अन्तर्मध्ये इच्छा अन्तरिच्छा तामन्तरिच्छां भोजनपानरमणाभिलाषरूपाम्, च पुनरुत्तमाङ्गं मस्तकं पीडयति । कीदृशी वेदना ? इन्द्राशनिसमा घोरा, इन्द्रस्याशनिर्वजं तत्समा, अतिदाहोत्पादकत्वात्तत्तुल्या घोरा-भयदा ॥ २१ ॥
उवट्ठिया मे आयरिया, विज्जामंततिगिच्छगा।
अधीया सत्थकुसला, मंतमूलविसारया ॥ २२ ॥ ------- हे राजन् ! तदेत्यध्याहारः, आचार्याः प्राणाचार्या वैद्यशास्त्राभ्यासकारका 'मे' ममोपस्थिताश्चिकित्सां कर्तुं लग्नाः । कीदृशा आचार्याः ? विद्यामन्त्रविचिकित्सकाः, विद्यया मन्त्रेण च चिकित्सन्ति - चिकित्सां कुर्वन्तीति विद्यामन्त्रचिकित्सकाः, प्रतिक्रियाकर्तारः । १ पविसिज्ज-अन्यसंस्करणे ॥