________________
४]
[ उत्तराध्ययनसूत्रे-भाग-२ ताश्चर्यः, पुनरपि तद्वचनश्रवणाद्विस्मयवान् जातः । यतो हि तद्वचनमश्रुतपूर्वम्, श्रेणिकाय अनाथोऽसि त्वमिति वचनं पूर्व केनापि नो श्रावितम् ॥१३॥
अस्सा हत्थी मणुस्सा मे, पुरं अंतेरंच मे। . भुंजामि माणुसे भोए, आणाइस्सरियं च मे ॥१४॥ .. एरिसे संपयग्गंमि, सव्वकामसमप्पिए ।
कहं अणाहो हवई, मा हुभंते मुसं वए ॥१५॥ युग्मम् ॥ द्वाभ्यां गाथाभ्यां श्रेणिको वदति हे भदन्त ! पूज्य ! 'हु' इति निश्चयेन मृषां मा ब्रूहि, असत्यं मा वद । एतादृशे सम्पदग्ग्रे सति-सम्पत्प्रकर्षे सत्यहं कथमनाथो भवामि ? कीदृशोऽहम् ? सर्वकामसमर्पितः, सर्वे च ते कामाश्च सर्वकामास्तेभ्यः सर्वकामेभ्यः समर्पितः शुभकर्मणा ढौकितः । अथ राजा स्वसम्पत्प्रकर्षं वर्णयति – अश्वा - घोटका बहवो मम सन्ति, पुनर्हस्तिनोऽपि प्रचुराः सन्ति, तथा पुनर्मनुष्याः सुभटाः सेवका बहवो विद्यन्ते । तथा मम पुरं - नगरमप्यस्ति । च पुनः 'मे' ममान्तःपुरं - राजीवृन्दं वर्तते । पुनरहं मानुष्यान् भोगान्, मनुष्यसम्बन्धिनो विषयान् भुनज्मि । च पुनराज्ञैश्वर्यं वर्तते, आज्ञां अप्रतिहतशासनस्वरूपाम्, तयाज्ञयैश्वर्यं प्रभुत्वं वर्तते । यतो मम राज्ये मदीयामाज्ञां कोऽपि न खण्डयतीत्यर्थः ॥१४॥ तदा मुनिराह
न तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा।
जहा अणाहो हवई, सणाहो वा नराहिव ॥ १६ ॥ हे पार्थिव ! हे राजन् ! त्वं अणाहस्स अनाथस्यार्थमभिधेयम्, च शब्दः पुनरर्थे , च पुनरनाथस्य प्रोत्थां न जानासि, प्रकर्षेणोत्थानं मूलोत्पत्तिः प्रोत्था, तां प्रोत्थाम्, केनाभिप्रायेणायमनाथशब्दः प्रोक्त इत्येवंरूपां न जानासि । हे राजन् ! यथाऽनाथोऽथवा सनाथो भवति, तथा न जानासि । कथमनाथो भवति ? कथं च सनाथो भवति ? ॥ १६ ॥
सुणेह मे महाराय, अव्वखित्तेण चेयसा ।
जहा अणाहो हवई, जहा मे य पवत्तियं ॥१७॥ हे महाराज ! 'मे' मम कथयतः सतस्त्वमव्याक्षिप्तेन-स्थिरेण चेतसा श्रृणु।यथाऽनाथो नाथरहितो भवति, यथा 'मे' ममाऽनाथत्वं प्रवर्तितम्, अथवा "मेय' इति एतदनाथत्वं प्रवर्तितम्, तथा त्वं श्रृणु । इत्यनेन स्वकथाया 'उट्टङ्कः कृतः ॥ १७ ॥ १'मेय'त्ति मया च प्रवर्तितमिति-प्ररूपितमनाथत्वमिति-बृहद्वृत्त्याम् ॥ २ महोर. छाप लगावी.